Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१]
बौद्धशासन-परीक्षा न च ततस्तस्य प्रामाण्यम्; सन्निकर्षादावपि तत्प्रसंगात् । ततो युक्तमविसंवादवकल्यात् दर्शनमप्रमाणमिति । तदुक्तम्
विषदर्शनवत्सर्वमज्ञस्याकल्पनात्मकम् । दर्शनं न प्रमाणं स्यादविसंवादहानितः॥"
. [सिद्धिविनि० १।२४ ] इति १६. प्रामाण्याभावे च दूरतः प्रत्यक्षत्वम्, तस्य तद्विशेषत्वेन तदभावेऽनुपपत्तेः । अतः प्रत्यक्षाभावान्न परमाणूनां प्रतिभासने प्रत्यक्ष प्रभवति ।
$ १७. नाप्यनुमानम्; तस्य लिङ्गदर्शनपूर्वकस्य प्रत्यक्षा भावेऽनुपपत्तेः । नाप्यागमः चाचां वस्तुविषयत्वानिष्टेः । एवं सकलप्रमाणाभावात् कथमर्थप्रमितिः स्यात, तदभावे परोदितपञ्चस्कन्धरूपाशेषप्रमेयानुपपत्तिः । तथा च सकलं जगच्छ्न्य मेवेति स्याद्वादविद्वेषिनां सौगतानां महदनिष्टमुपनिपतति । तदुक्तं स्वामिसमन्तभद्रपादैः
"प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गिगम्यं न तदर्थलिङ्गम् । वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमश्रुण्यतां ते ॥"
[ युक्त्यनु० श्लो० २२ ] इति १८. ततः प्राक्परमाणवः' प्रतिभासन्त इति परेषां प्रतिज्ञा पोप्लूयते, तथा पश्चात् संवृत्या स्थूलाद्याकाराः प्रतीयन्ते इति प्रतिज्ञापि । प्रागपि प्रत्यक्षेण नीलादिवत् स्थूलाद्याकाराणां दर्शनात् नीलविकल्पवत् स्थूलादिविकल्पानां च प्रतीतेः ।
१९. तस्मादिन्द्रियबुद्धयोऽपि स्वलक्षणविषया मा भूवन केवलं स्थूलाद्याकारान् पश्येयुः, अदृष्टे विकल्पायोगात्, अतिप्रसंगाच्च ।
२०. यथैव हि नीले पीतादीनामदृष्टत्वान्न तद्विकल्पोत्प॑त्तिः, नीलस्य दृष्टत्वान्नील-विकल्पस्यैवोत्पत्तेः', तथैव स्थूलादीनपश्यतः तद्विकल्पोत्पत्तिर्मा भूत् ; स्वलक्षणदर्शनात् स्वलक्षणविकल्पोत्पत्तिरेवास्तु।
२१. न चैवम्, स्थूलाद्याकारेष्वेव विकल्पोत्पत्तेः । यदि पुनः स्थूलाद्याकाराणामदर्शनेऽपि तदेनादिवासनावशादेव तदविकल्पोत्पत्तिरुररीक्रियते तदा नीलादिरूपादर्शनेऽपि तदवासनासाम
•देव नीलादिविकल्पोत्पत्तिः । ततो नीलादिरूपव्यवस्था मा भूत् । तद्वत्सुखादिव्यवस्थितिरपि कुतः संभाव्येत् । स्वसंवेदनव्यवस्था च तन्निश्चयोत्पत्तेः दुर्घटैव । तदनुत्पत्तेः सुतरां तदव्यवस्था स्वर्गप्रापणशक्त्यादिवद् वेद्याकारविवेकवद्वा । "स्वरूपस्य स्वतो गतिः' [प्र० वा० ११५]
१. प्रत्यक्षस्वस्य । २. प्रामाण्याभावे । ३. अर्हत इष्टमित्यध्याहारः, तेन ते इष्टमश्रण्वतामिति सम्बन्धः- आ, टि० । ४. स्थूलादिविकल्पोत्पत्तिः । ५. स्थूलादि । ६. स्यादिति । ७. नीलादिविकल्पोत्पस्यन्यथानुपपत्तेः ।
1. एष क०, ख० । 2. लिङ्गादर्श० क.। 3. प्रत्यक्षमावे क० । 4. अनुपपत्तिः क०, खः । 5.-रूपाः शेष-2016. तत् क०, ख०। 7. परमाणतः क०, ख०। 8.-योगादपि प्र-क०, खः । 9. ष्टत्वानीलोत्पत्ति-क०, ख०।
For Private And Personal Use Only

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163