SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१] बौद्धशासन-परीक्षा न च ततस्तस्य प्रामाण्यम्; सन्निकर्षादावपि तत्प्रसंगात् । ततो युक्तमविसंवादवकल्यात् दर्शनमप्रमाणमिति । तदुक्तम् विषदर्शनवत्सर्वमज्ञस्याकल्पनात्मकम् । दर्शनं न प्रमाणं स्यादविसंवादहानितः॥" . [सिद्धिविनि० १।२४ ] इति १६. प्रामाण्याभावे च दूरतः प्रत्यक्षत्वम्, तस्य तद्विशेषत्वेन तदभावेऽनुपपत्तेः । अतः प्रत्यक्षाभावान्न परमाणूनां प्रतिभासने प्रत्यक्ष प्रभवति । $ १७. नाप्यनुमानम्; तस्य लिङ्गदर्शनपूर्वकस्य प्रत्यक्षा भावेऽनुपपत्तेः । नाप्यागमः चाचां वस्तुविषयत्वानिष्टेः । एवं सकलप्रमाणाभावात् कथमर्थप्रमितिः स्यात, तदभावे परोदितपञ्चस्कन्धरूपाशेषप्रमेयानुपपत्तिः । तथा च सकलं जगच्छ्न्य मेवेति स्याद्वादविद्वेषिनां सौगतानां महदनिष्टमुपनिपतति । तदुक्तं स्वामिसमन्तभद्रपादैः "प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गिगम्यं न तदर्थलिङ्गम् । वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमश्रुण्यतां ते ॥" [ युक्त्यनु० श्लो० २२ ] इति १८. ततः प्राक्परमाणवः' प्रतिभासन्त इति परेषां प्रतिज्ञा पोप्लूयते, तथा पश्चात् संवृत्या स्थूलाद्याकाराः प्रतीयन्ते इति प्रतिज्ञापि । प्रागपि प्रत्यक्षेण नीलादिवत् स्थूलाद्याकाराणां दर्शनात् नीलविकल्पवत् स्थूलादिविकल्पानां च प्रतीतेः । १९. तस्मादिन्द्रियबुद्धयोऽपि स्वलक्षणविषया मा भूवन केवलं स्थूलाद्याकारान् पश्येयुः, अदृष्टे विकल्पायोगात्, अतिप्रसंगाच्च । २०. यथैव हि नीले पीतादीनामदृष्टत्वान्न तद्विकल्पोत्प॑त्तिः, नीलस्य दृष्टत्वान्नील-विकल्पस्यैवोत्पत्तेः', तथैव स्थूलादीनपश्यतः तद्विकल्पोत्पत्तिर्मा भूत् ; स्वलक्षणदर्शनात् स्वलक्षणविकल्पोत्पत्तिरेवास्तु। २१. न चैवम्, स्थूलाद्याकारेष्वेव विकल्पोत्पत्तेः । यदि पुनः स्थूलाद्याकाराणामदर्शनेऽपि तदेनादिवासनावशादेव तदविकल्पोत्पत्तिरुररीक्रियते तदा नीलादिरूपादर्शनेऽपि तदवासनासाम •देव नीलादिविकल्पोत्पत्तिः । ततो नीलादिरूपव्यवस्था मा भूत् । तद्वत्सुखादिव्यवस्थितिरपि कुतः संभाव्येत् । स्वसंवेदनव्यवस्था च तन्निश्चयोत्पत्तेः दुर्घटैव । तदनुत्पत्तेः सुतरां तदव्यवस्था स्वर्गप्रापणशक्त्यादिवद् वेद्याकारविवेकवद्वा । "स्वरूपस्य स्वतो गतिः' [प्र० वा० ११५] १. प्रत्यक्षस्वस्य । २. प्रामाण्याभावे । ३. अर्हत इष्टमित्यध्याहारः, तेन ते इष्टमश्रण्वतामिति सम्बन्धः- आ, टि० । ४. स्थूलादिविकल्पोत्पत्तिः । ५. स्थूलादि । ६. स्यादिति । ७. नीलादिविकल्पोत्पस्यन्यथानुपपत्तेः । 1. एष क०, ख० । 2. लिङ्गादर्श० क.। 3. प्रत्यक्षमावे क० । 4. अनुपपत्तिः क०, खः । 5.-रूपाः शेष-2016. तत् क०, ख०। 7. परमाणतः क०, ख०। 8.-योगादपि प्र-क०, खः । 9. ष्टत्वानीलोत्पत्ति-क०, ख०। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy