Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यशासन-परीक्षा
[२५ - वत्' । क्वचिदात्मव्यक्तौ प्रसिद्धस्यैकात्म्यरूपस्य ब्रह्मत्वस्य सर्वात्मस्वनात्माभिमतेषु च विधानात् । द्वैतप्रपञ्चारो पव्यवच्छेदेऽपि तदागमाद् व्यवच्छेद्यव्यवच्छेद कसद्भावसिद्धेः कथमद्वैतसिद्धिः ? आम्नायस्य परमब्रह्मस्वभावत्वे न ततस्तदद्वैतसिद्धि.* । स्वभाव-स्वभाववतोस्तादात्म्यैकान्तानुपपत्तेः।
२५. अथ स्वसंवेदनमेव पुरुषाद्वैतसाधकमिति चेत् ; न; स्वसंवेदनात्मनोद्वैतप्रसंगात् । न हि स्वसंवेदनमपि साधनमात्मनोऽनन्यदेव; साधनत्वविरोधात् , अनुमानागमवत् साध्यस्यैव साधनत्वोपपत्तेः, प्रकृतानुमानागमयोरिव स्वसंवेदनप्रत्यक्षस्यापि साधन[त्व]स्याभावात् ।।
२६. न च पुरुषाद्वैतं स्वतः सिद्धयति, विज्ञानाद्वैतवत् , स्वरूपस्य स्वतोगतेरभावात् , अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात्, विज्ञानाद्वैतस्यापि प्रसिद्धरिष्टहानिप्रसंगाच्च ।
$ २७. न विज्ञानाद्वैतं न स्वतोऽवसीयते, तस्य क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुभवाभावादिति चेत् ; न, पुरुषाद्वैतस्यापि नित्यस्य सकलकालकलाकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया सकृदप्यनुभवाभावाऽविशेषात्' । 'स्वतःसिद्धं ब्रह्म' इत्युपगमे; द्वैतमपि स्वतःसकलसाधनाऽभावेऽपि किं न सिद्धयेत् ; तत्त्वोपप्लवमात्रं वा नैरात्म्यं वा "स्वाभिलापमात्राविशेषात् ? सर्वस्य सर्वमनोरथसिद्धिरपि दुर्निवारा स्यात् । एवं परब्रह्मसाधकस्य कस्यचिदपि प्रमाणस्याभावात् भेदग्राहिप्रत्यक्षस्य बाधकाभावो व्यवतिष्ठत एव, 11एतदन्यस्यापि बाधकस्य अयोगात्।
६२८. स्यादाकूतम्--विवादापन्नं प्रत्यक्षादि मिथ्यैव, भेदप्रतिभासत्वात् , स्वप्नप्रत्यक्षादिवदिति; तदसत् ; प्रकृतानुमाने पक्ष-हेतु-दृष्टान्तभेदप्रतिभासस्याऽमिथ्यात्वे तेनैव " हेतोय॑भिचारात् । तन्मिथ्यात्वे तस्मादनुमानात् साध्याऽप्रसिद्धः। पराभ्युपगमात् पक्षादिभेदप्रतिभासस्याऽमिथ्यात्वेऽपि न दोषः इति चेत् ; न; स्वपराभ्युपगमभेदप्रतिभासेन व्यभिचारात् । तस्यापि पराभ्युपगमान्तराद1°मिथ्यात्वादोषाभावे स एव तद्भेदप्रतिभासेन व्यभिचारः14इति न क्वचिद्वयवतिष्ठेत् ।
___$ २६. कश्चिदाह-ब्रह्माद्वैतस्यामिथ्यासविन्मात्रस्य स्वतः सिद्धस्य क्रियाकारकभेदप्रत्यक्षादीनां 1 बाधकस्याभावात्तेषां भ्रान्तत्वं ततो न तद्विरोधकत्वमिति; तदपि न साधीयः, तथा सति बाध्यबाधकयोर्भेदात्, द्वैतसिद्धिप्रसंगात् ।
१. यथा सर्वथाऽप्रसिद्धं खरविषाणादि न विधीयते । २. तुलना-"तद्धि संवेदनाद्वैतं न तावत्स्वतः सिद्धयति पुरुषाद्वैतवत् , स्वरूपस्य स्वतोगतेरभावात् , अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात् , पुरुषाद्वैतस्यापि प्रसिद्धेरिष्टहानिप्रसङ्गाच्च।" -आप्तप० पृ० १८२।३.-तुलना-"ननु च पुरुषाद्वैतं न स्वतोऽवसीयते, तस्य नित्यस्य सकलकालकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया वाऽनुभवाभावादिति चेत्, न, संवेदनाद्वैतस्यापि क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुमवाभावाविशेषात् ।" -प्राप्तप० पृ० १८२। ४. यथा हि विज्ञानाद्वैतवादिनोक्तम्- "स्वरूपस्य स्वतोगतेः" [प्र. वा. १५] इति नोपपद्यते तथैव । ५. कथं न सिद्धयेत् ? ६. क्रियाकारकादीनाम् ।
1. -रोपो न्य-क०, ख० । 2. -माद् ग्यवच्छेदक-10 1 3. -तद्वतः खः। 4. क. प्रतौ इयं । पंक्तिर्नास्ति । 5. -रेव कः। 6. -तिरयो० क०, ख०। 7. क. प्रतौ 'न च पुरुषद्वैतं "इत्यस्मात् पदादारभ्य'"भविशेषात्' इति पर्यन्तं पाठो नास्ति । 8. -मात्रविशे० क०, खः। 9. परमब्रह्म ख०, गः। 10. -प्रत्यक्ष ख०। 11, तदन्यस्यापि ग०। 12. -त्वेनैव । 13. मिथ्यादो० क०, ख० । 14. तनेदेन न्यमि० ख० । 15. द्रुतस्य संवि० ख० । 16.-कस्यमावात् ख०।
For Private And Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163