SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा [२५ - वत्' । क्वचिदात्मव्यक्तौ प्रसिद्धस्यैकात्म्यरूपस्य ब्रह्मत्वस्य सर्वात्मस्वनात्माभिमतेषु च विधानात् । द्वैतप्रपञ्चारो पव्यवच्छेदेऽपि तदागमाद् व्यवच्छेद्यव्यवच्छेद कसद्भावसिद्धेः कथमद्वैतसिद्धिः ? आम्नायस्य परमब्रह्मस्वभावत्वे न ततस्तदद्वैतसिद्धि.* । स्वभाव-स्वभाववतोस्तादात्म्यैकान्तानुपपत्तेः। २५. अथ स्वसंवेदनमेव पुरुषाद्वैतसाधकमिति चेत् ; न; स्वसंवेदनात्मनोद्वैतप्रसंगात् । न हि स्वसंवेदनमपि साधनमात्मनोऽनन्यदेव; साधनत्वविरोधात् , अनुमानागमवत् साध्यस्यैव साधनत्वोपपत्तेः, प्रकृतानुमानागमयोरिव स्वसंवेदनप्रत्यक्षस्यापि साधन[त्व]स्याभावात् ।। २६. न च पुरुषाद्वैतं स्वतः सिद्धयति, विज्ञानाद्वैतवत् , स्वरूपस्य स्वतोगतेरभावात् , अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात्, विज्ञानाद्वैतस्यापि प्रसिद्धरिष्टहानिप्रसंगाच्च । $ २७. न विज्ञानाद्वैतं न स्वतोऽवसीयते, तस्य क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुभवाभावादिति चेत् ; न, पुरुषाद्वैतस्यापि नित्यस्य सकलकालकलाकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया सकृदप्यनुभवाभावाऽविशेषात्' । 'स्वतःसिद्धं ब्रह्म' इत्युपगमे; द्वैतमपि स्वतःसकलसाधनाऽभावेऽपि किं न सिद्धयेत् ; तत्त्वोपप्लवमात्रं वा नैरात्म्यं वा "स्वाभिलापमात्राविशेषात् ? सर्वस्य सर्वमनोरथसिद्धिरपि दुर्निवारा स्यात् । एवं परब्रह्मसाधकस्य कस्यचिदपि प्रमाणस्याभावात् भेदग्राहिप्रत्यक्षस्य बाधकाभावो व्यवतिष्ठत एव, 11एतदन्यस्यापि बाधकस्य अयोगात्। ६२८. स्यादाकूतम्--विवादापन्नं प्रत्यक्षादि मिथ्यैव, भेदप्रतिभासत्वात् , स्वप्नप्रत्यक्षादिवदिति; तदसत् ; प्रकृतानुमाने पक्ष-हेतु-दृष्टान्तभेदप्रतिभासस्याऽमिथ्यात्वे तेनैव " हेतोय॑भिचारात् । तन्मिथ्यात्वे तस्मादनुमानात् साध्याऽप्रसिद्धः। पराभ्युपगमात् पक्षादिभेदप्रतिभासस्याऽमिथ्यात्वेऽपि न दोषः इति चेत् ; न; स्वपराभ्युपगमभेदप्रतिभासेन व्यभिचारात् । तस्यापि पराभ्युपगमान्तराद1°मिथ्यात्वादोषाभावे स एव तद्भेदप्रतिभासेन व्यभिचारः14इति न क्वचिद्वयवतिष्ठेत् । ___$ २६. कश्चिदाह-ब्रह्माद्वैतस्यामिथ्यासविन्मात्रस्य स्वतः सिद्धस्य क्रियाकारकभेदप्रत्यक्षादीनां 1 बाधकस्याभावात्तेषां भ्रान्तत्वं ततो न तद्विरोधकत्वमिति; तदपि न साधीयः, तथा सति बाध्यबाधकयोर्भेदात्, द्वैतसिद्धिप्रसंगात् । १. यथा सर्वथाऽप्रसिद्धं खरविषाणादि न विधीयते । २. तुलना-"तद्धि संवेदनाद्वैतं न तावत्स्वतः सिद्धयति पुरुषाद्वैतवत् , स्वरूपस्य स्वतोगतेरभावात् , अन्यथा कस्यचित्तत्र विप्रतिपत्तेरयोगात् , पुरुषाद्वैतस्यापि प्रसिद्धेरिष्टहानिप्रसङ्गाच्च।" -आप्तप० पृ० १८२।३.-तुलना-"ननु च पुरुषाद्वैतं न स्वतोऽवसीयते, तस्य नित्यस्य सकलकालकलापव्यापितया सर्वगतस्य च सकलदेशप्रतिष्ठिततया वाऽनुभवाभावादिति चेत्, न, संवेदनाद्वैतस्यापि क्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपरमाणुरूपतया सकृदप्यनुमवाभावाविशेषात् ।" -प्राप्तप० पृ० १८२। ४. यथा हि विज्ञानाद्वैतवादिनोक्तम्- "स्वरूपस्य स्वतोगतेः" [प्र. वा. १५] इति नोपपद्यते तथैव । ५. कथं न सिद्धयेत् ? ६. क्रियाकारकादीनाम् । 1. -रोपो न्य-क०, ख० । 2. -माद् ग्यवच्छेदक-10 1 3. -तद्वतः खः। 4. क. प्रतौ इयं । पंक्तिर्नास्ति । 5. -रेव कः। 6. -तिरयो० क०, ख०। 7. क. प्रतौ 'न च पुरुषद्वैतं "इत्यस्मात् पदादारभ्य'"भविशेषात्' इति पर्यन्तं पाठो नास्ति । 8. -मात्रविशे० क०, खः। 9. परमब्रह्म ख०, गः। 10. -प्रत्यक्ष ख०। 11, तदन्यस्यापि ग०। 12. -त्वेनैव । 13. मिथ्यादो० क०, ख० । 14. तनेदेन न्यमि० ख० । 15. द्रुतस्य संवि० ख० । 16.-कस्यमावात् ख०। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy