________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ३३]
परब्रह्माद्वैतशासन-परीक्षा ३०. न च परोपगममात्रात्तयोर्बाध्यबाधकभावः, परमार्थतस्तदभावापत्तेः । ततः सकलबाधकामावात् अभ्रान्तेन प्रत्यक्षेण प्रसिद्धोऽयं भेदः कथमद्वैतं न विरुन्ध्यात् । तयोः' परस्परविरोधात् । तत एव भेदमद्वैतं विरुध्यादिति चेत् ; न; अद्वैतस्याभ्युपगममात्रत्वात् , तत्साधकप्रमाणाभावस्य प्रागेवोक्तत्वात् , मेदस्य च प्रमाणसिद्धत्वात् , तग्राहिप्रत्यक्षस्य बाधकाभावात् , अभ्रान्तत्वेन साधितत्वात् । नहि कस्यचिदभ्युपगममात्रं प्रमाणसिद्धं क्रियाकारकभेदं प्रतिरुणद्धि, क्षणिकाभ्युपगमवत् । तदेवं *सकलबाधकवैधुर्यादभ्रान्तप्रत्यक्षप्रसिद्ध क्रियाकारकभेदः, सोऽयमद्वैतैकान्तपक्षे विरुध्यत एवेति सिद्धं परमब्रह्माद्वैतशासनं प्रत्यक्षविरुद्ध मिति । तदुक्तं श्रीस्वामिसमन्तभद्राचार्य:
"अद्वैतकान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते। कारकाणां क्रियायाश्च नैकं स्वस्मात् प्रजायते ॥"
[आप्तमी० श्लो० २४ ] इति $ ३१. एतेनैव इष्टविरुद्धं 'चाद्वैतशासनम्। उक्तं च अद्वैतसाधकानुमानागमाभ्यां द्वैतस्य सिद्धेरुक्तत्वात् । अद्वैतशब्दः "स्वाभिधेयप्रत्यनीकपरमार्थापेक्षः, नञ् पूर्वाऽखण्डपदत्वात् ; 'अहेत्वभिधानवत्', इत्यनुमानविरोधाच्च । तदप्युक्तं भगवद्भिः स्वामिभिः
"अद्वैतं न विनाद्वैतादहेतुरिव हेतुना । संक्षिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥”
[ आप्तमी० श्लो० २७ ] इति ३२. तथा ब्रह्मवादिनां धर्मानुष्ठानं न प्रतिष्ठामियति, तेषां पुण्यपापसुखदुःखेहपरलोकविद्येतरबन्धमोक्षासंभवात् , तत्त्वोपप्लववादिवत् । तथैव स्वामिनः प्राहुः
"कर्मतं फलद्वैतं लोकतं च नो भवेत् । विद्याऽविद्याद्वयं न स्याबन्धमोक्षद्वयं तथा ॥"
[आप्तमी० श्लो० २५ ] इति ६ ३३. एतेन यदुक्तं वेदान्तवादिभिः 'एकमेव ब्रह्म नानात्मतया दृश्यते, ब्रह्मविवर्ताः पृथिव्यादयः, ब्रह्मप्राप्तिर्मोक्षः, श्रवणादिभिः ब्रह्मसाक्षात्कार' इत्यादि, तत्सर्वं बन्ध्यास्तनन्धयसौरूप्यव्यावर्णनैवदुपेक्षामर्हति, केनापि प्रमाणेन ब्रह्मसिद्धेरभावात् , अन्यथा प्रमाणप्रमेयद्वैतप्रसंगात् । भ्रान्तेन प्रमाणेन तत्सिद्धौ स्वप्नोपलब्धधूमादिना परमार्थपावकादिसिद्धिप्रसंगात् । चन्द्रमरीचिजालसन्निधिविशेषात् परिणमजला पुद्गलविकारत्वात् परमार्थेनैव प्रतिबिम्बेन चन्द्रप्रतिपत्तेः । भ्रान्तेन प्रमाणेन प्रमाणमन्तरेण वा ब्रह्माद्वैतसिद्धौ तथा द्वैत-नैरात्म्यादिसिद्धिरपि दुर्निवारा स्यात् । तथा11 द्वैताद्वैतयोधिकसाधकाभावाद्वेदान्तिनां दृष्टहानिरदृष्टकल्पनेयं केवलमुपहासाय जायते ।
१. भेदाभेदयोः । २. तुलना-अष्टस०, १६१ । ३. “एष बन्ध्यासुतो याति खपुष्पकृतशेखरः । मृगतृष्णाम्मसि स्नास्वा शशशृङ्गधनुर्धरः ॥” इत्यादि ग्यावर्णनवत् । ४. रूपेण द्वैतप्रसङ्गात् ।
1. परमार्थः ग०। 2. -द्रुतं विरु० क०, ग०। 3. -वोक्तत्वात्तत्य च ग०। 4. -क वैधुर्या० ख०, ग०। 5. ग. प्रतौ 'च' नास्ति। 6. -मानाभ्यां क०, ख०। 7. साभिधेय ख० । 8. श्रवणादिना परमार्थमिः ब्रह्म ग०। 9.-मेयप्रस० क०, ख०। 10. -मज्वलपु. खः। 11. ततो ख०, ग ।
For Private And Personal Use Only