Book Title: Satyashasan Pariksha
Author(s): Vidyanandi Acharya, Gokulchandra Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 105
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३-] विज्ञानाद्वैतशासन-परीक्षा ६१०. नन्वस्त्येव बहिरर्थप्रत्यक्षस्य बाधकम् , नीलतज्ज्ञानयोरभेदः सहोपलम्भनियमात्', द्विचन्द्रवत् , इत्यनुमानस्य तद्बाधकत्वादिति चेत् ; न; हेतोविरुद्धत्वात् । योगपद्यार्थे सहशब्दे तन्नियमस्याभेदविरुद्ध नाना(त्वे) भावात् । अभेदेऽपि चन्द्रद्वितये भाव इति चेत् ; न; तत्रापि यथा प्रतिभासं भेदभावात् । तथा तत्त्वमभेदोऽपि इति चेत् ; न, यथातत्त्वं सहोपलम्भस्यापि अभावात् एवं दृष्टान्तोऽपि साध्यसाधनविकल: स्यात् । तन्मात्रस्य हेतुत्वे तस्य भेदमात्र एव भावाविरुद्ध एव हेतुः स्यात् । तथा-असिद्धश्चायं हेतुः; यतो नर्तक्याघेकार्थसंगतदृष्टयः परचित्तविदो' वा नावश्यं तद्बुद्धि तदर्थं वा संविदन्तीति हेतोरसिद्धिः, नियमस्यासिद्धेः। नतकीरूपस्यापि बहुत्वान्न तन्नियमासिद्धिरिति चेत् ;न; तपस्यैकत्वात् । तत्र सर्वेषां सभासमवायिनां एकवाक्यताप्रतिपत्तेः । व्यामोहादेव कुतश्चित्तत्र तेषामेकवाक्यत्वं वस्तुतो नानैव तद्रूपमिति चेत् , कोशपानादेतत्प्रत्येतव्यं न प्रमाणतः कुतश्चिदपि तदभावात् । $ ११.अथ “सर्वे प्रत्ययाः निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवत्" [३० वार्तिकालं. पृ० ३५९ ] इत्यनुमानं प्रकृतबाधकमिति चेत् ; न; प्रकृतसाध्यसाधनप्रत्यययोः स्वार्थालम्बनत्वाभावेन हेतोविज्ञानमात्रसिद्धिः, हेतुसाध्ययोरभावात् । अथार्थवत्त्वे, ताभ्यामेव हेतोय॑भिचारात् । तदुक्तं भगवभिः; स्वामिभिः "अनर्थिका साधनसाध्यधीश्चेद्विज्ञानमात्रस्य न हेतुसिद्धिः । अथार्थवत्त्वं व्यभिचारदोषो न योगिगम्यं परवादिसिद्धम् ॥" [युक्त्यनु० श्लो० १८ ] इति . १२. तदेवं सकलबाधकवैधुर्यादभ्रान्तेन प्रत्यक्षेण बहिरर्थसिद्धेदृष्टविरुद्धं विज्ञानाद्वैतशासनम् । १३. तश्रेष्टविरुद्धं च, अनुमानावहिरर्थसिद्धेः। तच्चेदमनुमानम् -- 'सन्ति बहिरर्थाः साधनदूषणप्रयोगात्' इति कथं पुनरतो भावर्मिणो बहिरर्थस्य साधनम् , कथं च न स्यात् , अस्य सद्भावधर्मत्वे तद्वदसिद्धत्वापत्तेः; तदभावधर्मत्वे चातस्तदभावस्यैव सिद्धेविरुद्धत्वोपनिपातात्, तदुभयधर्मत्वे च व्यभिचारप्रसंगात् इति चेत् ; न, प्रत्येकोभयधर्मविकल्पविकलस्यैवास्याभ्यनुज्ञानात् । कथमेवं तस्य बहिरर्थभावं प्रत्येव लिङ्गत्वं न तदभावं प्रत्यपीति चेत् ; न; तत्रैव तस्याविनाभावनियमात् । धर्मिधर्मस्यापि कृतकत्वादेरनित्यत्वादौ तत एव गमकत्वोपपत्तेः न धर्मिधर्मत्वमात्रेण, एकेशाखाप्रभवत्वादावपि तदुपनिपातेनातिप्रसंगापत्तेः । १. "सकृत्सवेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिद्धयति ॥" प्र. वा. ३।३८८ २. एकत्वेऽपि । ३. सहोपलम्भनियममात्रस्य । ४. सभ्यानामित्यर्थः । ५. नर्तकीरूपम् । ६. कोशपानं = सौगन्ध्यम् । ७. बहिरर्थसद्भाव एव । ८. अविनामावनियमादेव । ९. पक्वानि एतानि फलानि एकशाखाप्रभवत्वात् उपयुक्तफलवदित्यत्र । ____ 1.-त्यैव ग० । 2. नीलदानयो ग० । 3. युग क०, ग०। 4. नानात्वभावात् क० । 5. भेदव. भावात् क० । भेद एव मावात् ख० । 6. भेदेऽपि क०, ख०।। 7. विरोधावा० क०, खः। 8. प्रत्येवं ग० । 9. -नित्यादौ ग०। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163