SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा [ & - $ ६. कथमेकमेव 'परब्रह्मास्ति, परस्परं भिन्नानां नानात्मनां प्रतीतेरिति चेत्, न, एकस्यापि तस्य भूते भूते व्यवस्थितस्य जलेषु चन्द्रवत् अनेकधा प्रतिभाससंभवात् । तदुक्तम् — "एक एव तु भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥” 9 [ अमृतवि० उप० प० १२ पृ० १५ ] इति $७ तथा पृथिव्यादयोऽपि न ततस्तत्त्वान्तराणि तद्विवर्तत्वात् । तच्चोच्चावचचराचररूपप्रपञ्चस्यास्य ततँ एव जन्मादिभावात् । तथैवोक्तं भगवता बादरायणेन – “ जन्माद्यस्य यतः" [ ब्रह्मसू० १।१।२ ] इति । ८. अथ कथं प्रपञ्चाध्यवसायविध्वंसन करात् परमपुरुषात् प्रपञ्चस्य जन्मादीति चेत्; न; अनाद्यविद्यासचिवादेव ततस्य भावात् । ९. अविद्या तर्हि द्वितीया स्यादिति‍ चेत्; तदसत् तस्याः सदसत्त्वविचाराभ्यां प्रमाणपदवीमविगाहमानायाः, अनिर्वाच्यत्वात् । तदुक्तम् — “अनिर्वाच्याऽविद्या- द्वितय-सचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽवनयः । यतश्चाभूद् विश्वं चरमचरमुश्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखशानममृतम् ॥” [ ] इति $१०. नन्वेवमपि विवर्तविवर्ते' द्वैतस्य भावात् कथमद्वैतसिद्धिरिति चेत्; न; विवर्तानां रज्वो' भुजङ्गाकास्वत् मायारूपाणामेव तस्मिन् प्रतिभासनात् । तदप्युक्तम्— " यस्मिन् रज्जुभुजङ्गवत् त्रिभुवनं भाति भ्रमानिर्भये । सोऽहं नित्यनिरामयामृतवपुः संसारसारः परम् ॥” [ ] इति $ ११. सकलोऽप्येष विवर्तः सत्यामविद्यायां प्रतिभाति, नत्वविद्यानिवृत्तौ । सा चाविद्यानिवृतिरेव मोक्षः । तस्य चोपायो ब्रह्मसाक्षात्कार एव । सोऽपि श्रवण-मनन-ध्यानैर्भवति । तथैव श्रुतिः - " आत्मा वा रे द्रष्टव्यः श्रोतव्योऽनुमन्तव्यो निदिध्यासितव्यः " [ बृहदा० २|४|५ ] तथा स्मृतिश्च -- " श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येय एते दर्शन हेतवः ॥ " [ । $ १२. तत्रोपनिषवाक्यानां परब्रह्मणि० तात्पर्यावधारणं श्रवणम् विचारणं मननम् । श्रवणमननाभ्यां निश्चितार्थस्य मनसा परिचिन्तनं ध्यानम् । ] इति श्रुतार्थस्य युक्त्या तच्च नित्यानित्य १. नानास्वरूपाणां घटपटाद्यर्थानाम् । २. मिनतवानि । ३. परमपुरुषात् । ४. परमपुरुषात् । ५. अविद्यायाः । ६. परमपुरुषे । For Private And Personal Use Only 1. परमब्रह्म० ख० । 2. दनेदाताप्रक० । 3. भगता ख० । 4. जम्मादिति ख०, ग० । 5. तीयस्थादिति ष० । 6. यस्य विय० क० । यस्मैतत् विय० ग० । 7. विवर्ताविवर्ति क०, 8. रज्जौ क० । 9. दारः क०, ग० । दारा ख० । 10. परमब्रह्मणे ख० । ख० ।
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy