________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परब्रह्माद्वैतशासन-परीक्षा वस्तुविवेकः शमदमादिसंपत्तिरत्रामुत्र च वैराग्यं मुमुक्षुत्वमिति- साधनचतुष्टयसंपन्नस्य संपद्यते । तस्मिंश्च ब्रह्मसाक्षात्कारः । तत्र च परमब्रह्मेकीभावलक्षणमोक्षप्राप्तिरिति । [ उत्तरपक्षः ]
१३. तदेतदद्वैतैकान्तशासनं प्रत्यक्षविरुद्धम् ; प्रत्यक्षेण देशकालाकारभेदविशिष्टानां क्रियाकारकाणां स्थानगमनादिग्रामारामकरितुरगादिरूपाणां नानावहिरर्थानां तद्विषयविचित्रप्रतिभासविशेषाणां परमार्थानां परस्परतो व्यावृत्तानां प्रस्फोटमध्यवसायात् । भेदावभासिना च प्रत्यक्षेणाद्वैतस्य विरुद्धत्वात् । सर्वथैकस्मिन् भेदप्रत्यक्षस्यानुपपत्तेः ।
१४. नन्वेकस्मिन्नपि "क्रियाकारकभेदप्रत्यक्षादेः संभवात् स्वप्नसंवेदनवत् कथमद्वैतं [प्रत्यक्ष] विरुद्धमिति चेत्, न, स्वप्नसंवेदनस्याप्येकत्वे - तद्विरोधस्य तदवस्थत्वात् । तत्रान्यदेव हि क्रियाविशेषसंवेदनं स्ववासनोत्थम् , अन्यदेव च कारकविशेषसंवेदनं प्रत्यक्षम्, न पुनरेकमेव, तद्धेतुवासनाभेदाभावप्रसंगात् । जाग्रहशायामिव स्वप्नादिदशायामपि पुंसोऽनेकशक्त्यात्मकस्य क्रियाकारकविशेषप्रतिभासवैचित्र्यव्यवस्थितेः। कस्यचिदेकरूपस्यात्मगगनादेरप्यनेकान्तवादिनाम् अनेकक्रियाकारकविशेषप्रतिभासालम्बनत्वा सिद्धेविरुद्धमेव तत्प्रत्यक्षेणाद्वैतम् ।।
१५. ननु भेदावभासीदं प्रत्यक्ष भ्रान्तम् , इन्द्रजालादिप्रत्यक्षवदिति चेत् ; तदेतद्धान्ततरम्, उक्तदोषाऽपरिहारात् । सर्वथैकस्मिन् भ्रान्तस्याऽभ्रान्तस्य वा भेदप्रत्यक्षस्य दृष्टान्ताभावेनासंभवात् । प्रान्तेनापि 'तेनाद्वैतविरोधस्य तदवस्थत्वात् । यथाकथञ्चिदुक्तमप्येतदयुक्तम् ', यस्मादिन्द्रजालादिकमेव प्रान्तम्, बाधकसद्भावात् । नहि 'करोति कुम्भं कुम्भकारो दण्डादिना, भुक्ते पाणिनौदनम्' इत्यादि क्रियाकारकभेदप्रत्यक्षं प्रान्तम्, बाधकाभावादिति बालाबलादयोऽपि प्रतिपद्यन्ते । तदुक्तं भटटाकलङ्कदेवैः
“इन्द्रजालादिषु भ्रान्तमोरयन्ति न चापरम् । अपि चाण्डालगोपालवाललोलविलोचनाः॥"
न्यायवि० ११५२ ] इति 5 १६. नन्वत्रापि बाधकमस्त्येवेति चेत् , तदसत् ; प्रत्यक्षविषयभेदान्यथाभूतपरमब्रह्माद्वैतसाधकस्य कस्यचिदपि प्रमाणस्यासंभवात् । विषयान्यथात्वसाधकस्यैव बाधकत्वोपपत्तेः शुक्ती रजतज्ञानस्य शुक्तिकाज्ञानवत् ।
३१७. ननु च प्रत्यक्षमेव परमब्रह्मसाधकम् , अक्षिविस्फालनानन्तरं निर्विकल्पकस्य सन्मात्रविधिविषयंतयोत्पत्तेः, सत्तायाश्च परमब्रह्मस्वरूपत्वात् ।।
"अस्ति खालोचनाक्षानं10 प्रथमं निर्विकल्पकम् । यालमूकादिविज्ञानं11 सदृशं शुद्धवस्तुजम् ॥"
[ मी० श्लो० प्रत्यक्ष० श्लो० १२०]
१. भेदप्रत्यक्षेण । ___ 1. मुमुक्षस्व क०, ग0 1 2. प्रस्फुट ग० । 3. क्रियाकारभेद० स० । 4. -कस्बै तद्वि० क.। 5. कारकः संवेदनम् क०, ख० । 6. -लम्बनात्वा० ख० । -लम्बकत्वा० ग०। 7. तदप्रयुक्तम् क०, ख० । 8.बाधकस्योपपत्ते क०। 9.गप्रती 'च'नास्ति । 10.-नज्ञानम् क०, ख०। 11. -विज्ञानस० ग०।
For Private And Personal Use Only