SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा [१८ - इति वचनादिति चेत्, तदेतत्सुतरां प्रत्यक्षबाधितम् ; सकलविशेषरहितस्य सर्वथा नित्यस्य निरवयवस्य व्यापकस्य सन्मात्रस्य परोपवर्णितस्वरूपस्य जातुचिदप्यननुभवात् । अक्षिविस्फालनानन्तरमपि प्रतिनियतदेशकालद्रष्टव्यत्वादिविशेषविशिष्टस्यैव सत्तादिसामान्यस्य साक्षात्करणात् ; अप्रतिनियतदेशस्य द्रष्टुरनन्यस्यादर्शनात् , अन्यथा प्रतीत्यपलापप्रसंगात् । दण्डकुण्डलाद्याकारकुण्डलिनोरिव सामान्यविशेषयोरन्योन्यपरिहारेणावस्थानानुपपत्तेः, अन्यतरस्याभावेऽन्यतरस्याप्यभावाच । तदुक्तम् "निर्विशेषं न सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वाचन विशेष स्तद्वदेव हि ॥" [ मी० श्लो० आकृति० श्लो० १० ] इति ६ १८. ततो न प्रत्यक्षं परमब्रह्मसाधकं प्रत्युत तद्बाधकमेव स्यात् , विधिवत् परस्परल्यावृत्तेरप्यध्यक्षतः प्रतीतः। ६ १९. ननु न प्रत्यक्षमद्वैतबाधकं तस्य विधातृत्वेन निषेद्धृत्वाभावात् । "आहुर्विधात प्रत्यक्षं न निषेधृविपश्चितः। नैकत्व प्रागमस्तेन प्रत्यक्षेण प्रबाध्यते ॥" । [ब्रह्मसिद्धिः ] इति वचनादिति चेत्, तदसंगतम् ; प्रतिनियतार्थविधिविषयस्य प्रत्यक्षस्यागमस्य वा निषेधृत्वोपपत्तेः, केवलविधिप्रतिपत्तेरेव अन्यप्रतिषेधप्रतिपत्तिरूपत्वात् , केवलभूतलप्रतिपत्तैरेव घटाभावप्रतिपत्तिरूपत्वसिद्धेः। नह्ययं प्रतिपत्ता किंचिदुपलभमानः पररूपैः संकीर्णमुपलभते, यतः प्रमाणान्तरातत्वतिषेधः साध्यते । ततो विधात्रेव प्रत्यक्षमुपनिषद्वाक्यञ्चेति नियमस्यासंभवः, अन्यथा ततो विद्यावदविद्याविधानानुषंगात् । सोऽयमविद्याविवेकेन सन्मानं कुतश्चित् प्रतीयन्नेव' 'न निषेधृप्रत्यक्षमन्यद्वा' इति ब्रुवाणः कथं स्वस्थः ? कथं वा 'प्रत्यक्षादेनिषेधृत्वाभावं प्रतीयात् ? यतस्तैप्रतिपत्तिः तस्यैवाऽभावविषयत्वसिद्धेः । प्रत्याक्षादेविधातृत्वप्रतिपत्तिरेव निषेद्धृत्वाभावप्रतिपत्तिरिति चेत् ; तर्हि सिद्धं भावाभावविषयत्वं तस्य । तथा च प्रत्यक्षेणाद्वैतैकान्तो बाध्यत एवेति कथं तत्तस्यै साधकं स्यात् ? २०. नन्वनुमानं तत्साधकमस्ति--'विवादापन्नं सर्व प्रतिभासान्तः प्रविष्टम्, प्रतिभाससमानाधिकरणत्वात् , यत्प्रतिभाससमानाधिकरणं तत्प्रतिभासान्तःप्रविष्टम् ; यथाप्रतिभास - स्वरूपम्, प्रतिभाससमानाधिकरणं च सर्वम्' इति निर्दुष्टत्वाद्धेतोः प्रतिभासमात्ररूपपरमब्रह्मसिद्धिरिति चेत् ; तदेतत् स्ववधाय11 कृत्योत्थापनं ब्रह्मवादिनाम् , प्रतिभाससमानाधिकरणत्वाद्धेतोः सर्वस्य १. विधिविषयकत्वेन । २. परमपुरुषनिषेधः। ३. विधातृत्व । १. प्रत्यक्षस्य । ५. अद्वतस्य । ६. कृत्या-पिशाचिनीति । "कृत्याशब्देनाथर्वमन्त्रः पावके होमविधानेन कृतेन पुरुषो यो निक्रामति सः कर्तुः शत्रु व्यापादयति यदि वा शत्रुर्बलवान् मवति जपहोमदानैस्तदा सा येनोत्थापिता तमेव विनाशयति ।"-नीतिवा० सं० टी० पृ. १३५ ।। 1. -तत्वामविशे-क० । 2. विशेषास्त० ख०। 3. -क्षद्वैत क०, ख०। 4. -मस्ति न क० । 5. साध्येत ग० । 6. प्रतिपमेव ख०, ग० । 7. प्रत्यक्षाधे नि-क० । 8. -भासतः क०, ख० । 9. भासः स्व-क०, ख० । 10. निर्गुष्ठादेतोः कः । निर्दुष्टाद्धेतोः ख०, ग०। 11. सवधायदाकृत्यों-क. -धायधाय-ख०। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy