Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 201
________________ सू० १०४८-१०६७] ज्यन्तप्रक्रिया २७ १९३ भवति अगतौ जौ परे ॥ शातयति । गतौ तु सादयति । अशीशतत् । रातो जौ पुक् (सू० १०३७) डुदाञ् दाने । दापयति अदीदपत् । धापयति अदीधपत् ॥ १०४८ पुगन्तस्य गुणो वक्तव्यः ७ ॥ अर्पयति । खरादेः परः (सू० १०३८) आर्पिपत् । ष्ठा गतिनिवृत्तौ । स्थापयति ॥ १०४९ तिष्ठतेरुपधाया इकारो घक्तव्योङि परे ८॥ ततो द्वित्वम् । अतिष्ठिपत् ॥ १०५० पादेर्युक् ९ ॥ पाशाछासाहेवेञां युगागमो भवति नौ परे ।। पाययति॥१०५१पिबतेरङि पूर्वस्येकारोपधालोपौवक्तव्यौ १०॥ अपीप्यत् । शो तनूकरणे । सन्ध्यक्षराणामा (सू० ८०३) शाययति । अशीशयत् । छो छेदने । अचीछयत् । षोऽन्तकर्मणि । साययति असीषयत् । हृञ् स्पर्धायाम् ॥ १०५२ ह्वयतेरङि संप्रसारणं युगभावश्च वक्तव्यः कृतसंप्रसारणस्य दयतेरङि क्रमागुणवृद्धी वाच्ये ११॥ अजुहावत् अजूहवत् अजूहवताम् । व्यञ् संवरणे । व्यायति अविव्ययत् । वेञ् तन्तुसंताने। वाययति । अवीवयत् ॥ १०५३ पातेझै लुग्वक्तव्यः १२ ॥ युकोऽपवादः। पालयति । अपीपलत् । रभ राभस्ये । रभसो वेगहर्षयोः ॥ १०५४ रभलभोः स्वरेणाद्यपी विना नुम्वाच्यः १३ ।। रम्भयति । अररम्भत् । हुलभ प्राप्तौ । लम्भयति । अललम्भत् । प्रीञ् तर्पणे ॥ १०५५ प्रीधुजोर्नु १४ ॥ अनयोर्नुगागमो भवति जौ परे ॥ प्रीणयति । अपिप्रीणत् । धूञ् कम्पने। धूनयति । अदुधूनत् ॥ स्मिञ् ईषद्धसने ॥ १०५६ स्मयतेरात्यात्वं औ वाच्यम् १५ ॥ विस्मापयते । असिष्मपत् । आति किम् । विस्मापयति । असिष्मयत् ॥ १०५७ रुहेनौ पो वा वाच्यः १६ ॥ रुह बीजजन्मनि प्रादुर्भावे च । रोहयति। रोपयति । अरूरुहत् अरूरुपत्॥ १३

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304