Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 260
________________ २५२ सारस्वतव्याकरणम् । [ वृत्ति: ३ सारणम् । इज्यते अनेनेति यज्ञः । याच्यते सा याच्ञा । यती प्रयत्ने । यत्यते तत् यतनं यत्नः ॥ १४१६ छः श्रे १७ ॥ छकारस्य शकारादेशो भवति नप्रत्यये परे भावादौ । शकारादेशः संप्रसारणबाधार्थः । विच्छि गतौ । विच्छयते इति विश्वः । प्रच्छि ज्ञीप्सायाम् । पृच्छयतेऽसौ प्रश्नः । रक्ष्यतेऽसौ रक्षणः । सुप्यते इति खमः ॥ १४१७ उपसर्गकर्माधारेषु दाधोः किः १८ ॥ उपसर्गे कर्मण्युपपदे आधारे च दाधोः किः प्रत्ययो भवति ॥ अन्तर्धीयते इति अन्तर्धिः । आधिः । आदिः । विधिः । आधीयते तत् आधानं आधिः । आदीयते तत् आदानं आदिः । आतोऽनपि (सू०८०९) इत्याकारलोपः । विधीयते तत् विधानं विधिः । संघीयते तत् संधानं संधिः । उदकं धीयतेऽस्मिन्निति उदधिः ॥ ९४९८ उदकस्य १९ ॥ उदकशब्दस्य उदादेशो भवति अधिकरणे । पयोधिः । अम्भो 1 निधीयते यत्र स अम्भोनिधिः ॥ १४१९ भावे युद्ध २० ॥ धातोर्भावे युट् प्रत्ययो भवति ॥ युवोरनाकौ ( सू०९१) ज्ञायते तत् ज्ञानम् । क्रियते तत् करणम् । दीव्यते तत् देवनम् । दीयते तत् दानम् । भूष अलंकारे । भूप्यते तत् भूषणम् । ह्रियते तत् हरणम् । हूयते सत् हवनम् । उद्यते तत् वहनम् । भाष व्यक्तायां वाचि । भाष्यते तद्भाषणम् । दूष वैचित्ये । दूष्यते तत् दूषणम् । गीयते तत् गानम् । पीयते तत् पानम् । मीयते तत् मानम् ॥ १४२० उद: स्थास्तम्भोः सलोपश्च २१ ॥ उदुपसर्गात्परयोः स्थास्तम्भयोः सकारस्य लोपो भवति ॥ उत्थीयते तत् उत्थानम् । स्तम्भ रोधने । उत्तम्भ्यते तत् उत्तम्भनम् || १४२१ साधनाधारयोर्युट् २२ ॥ साधने आधारे चार्थे युट् प्रत्ययो भवति ॥ पच्यते अनेनेति पचनः अग्निः । पच्यतेऽस्यां स्थाल्यां सा पचनी स्थाली ।। १४२२ ईषदु: सुषु

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304