Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 270
________________ २६२ सारस्वतव्याकरणम् । [ वृत्ति: ३ इष्ट्वा । भ्रमु चलने । भ्रमित्वा भ्रान्त्वा । अदो जघुः ( सू० १२९० ) जग्ध्वा || १४८३ समासे क्यप् ८ ॥ समासे सति पूर्वकाले क्यप्प्रत्ययो भवति तत्कर्तृके धातौ प्रयुज्यमाने ॥ ह्रस्वस्य पिति कृति तुक् (सू० १२४६ ) डुभृञ् धारणपोषणयोः । संभृत्वा करो - तीति संभृत्यकरोति । णमु प्रहृत्वे शब्दे च । प्रकर्षेण कायवाङ्मनो - भिर्नत्वा इति प्रणम्य गच्छति । अनञ्पूर्व इत्येके । अकृत्वा जल्पति । अकृत्वा गच्छति । अजित्वा शात्रवान्सर्वानकृत्वा विमलं यशः । अदत्त्वा वित्तमर्थिभ्यः कथं जीवन्ति भूभृतः ॥ १ ॥ १४८४ क्यपि जेर्गुणश्च ९ ॥ क्यपि लघुपूर्वस्य रयादेशोऽपि - वाच्यः ॥ परिणमयित्वा इति परिणमय्य भुङ्क्ते । विगमय्य । विग णय्य । अलघुपूर्वस्य न । तेन जेर्लोपो वाच्यः । प्रतार्य । संप्रधार - यित्वा इति संप्रधार्य । विचार्य करोति । आम्ल व्याप्तौ । आफ्नोतेर्वा । प्रापय्य । प्राप्य ॥ १४८५ दादीनां क्यपि ईत्वाभावो वाच्यः १० ॥ क्यपि स्थामी इति ईकारो न भवति ।। दो अवखण्डने । प्रदाय । प्रसाय । प्रमाय । प्रस्थाय । उप समीपे स्थित्वा इति उपस्थाय । पितेव प्रपाय प्रपीय । लोपस्त्वनुदात्ततनाम् (सू० ८८६ ) १४८६ अमस्य क्यपि वा लोपः ११ ॥ प्रकर्षेण नत्वा इति प्रणम्य-प्रणत्य । आसमन्तात् ग्रामे आगम्य - आगत्य ॥ १४८७ विपूर्वस्य दधातेः करोतेरर्थे क्यप् १२ ॥ विधाय । प्रहाय ॥ १४८८ तत्कालेऽपि क्यप् दृश्यते १३ ॥ नेत्रे निमीत्य हसति । मील संमीलने । मील संगमे । उभयपदी । अक्षिणी संमीलित्वा इति अक्षिणी 1 संमील्य हसति । चक्षुषी संमील्य हसति । मुखं व्यादत्त्वा इति

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304