Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
सू०१४८२-१४९४] क्त्वाप्रत्ययाधिकारः ९
२६३ । मुखं व्यादाय खपिति ॥ १४८९ पौनःपुन्ये णम्पदं द्विश्व १४ ॥ समानकर्तृकेषु धातुषु प्रयुज्यमानेषु पूर्वकाले पौनःपुन्यार्थे धातोर्णम् प्रत्ययो भवति णमन्तस्य पदस्य द्विर्वचनं भवति ॥ आतो युक् (सू० ११९२) पीत्वा पीत्वा इति पायं पायं गच्छति । आदरे वीप्सायां द्विर्भावः । भुक्त्वा भुक्त्वा इति भोजं भोजं व्रजति । स्मृत्वा स्मृत्वा इति स्मारं सारं नमति शिवम् ॥ १४९० कथमादिषु स्वार्थे कृञो णम् १५ ॥ कथं इत्थं अन्यथा एवं एतेषु प्रयुज्यमानेषु खार्थे कृनो णम् प्रत्ययो भवति ॥ कथंकारं इत्थंकारं अन्यथाकारं एवंकारं पठति । एवं पठतीत्यर्थः ॥ १४९१ समूलाकृतजीवेषु हन्कृञ्ग्रहांणम् वाच्यः खार्थे तेषामनुप्रयोगश्च १६॥ समूलघातं हन्ति । अकृतकारं करोति । जीवं गृहीत्वा इति जीवनाहं गृह्णाति । इत्यादि ॥ १४९२ वर्णात्कारः १७ ॥ वर्णमात्राकारः प्रत्ययो भवति ॥ क इति वर्णः ककारः । व इति वर्णों वकारः।. अ इति वर्णः अकारः । वर्णसमुदायादपि कारो दृश्यते । अहंकारः। ओंकारः । टकारः । पकारः । तकारः इत्यादि ॥ १४९३ रादिको वा १८ ॥ र इति वर्णः रेफः-रकारः॥
रकारादीनि नामानि श्रुत्वा तत्रास रावणः । रत्नानि च रमण्यश्च संत्रासं जनयन्ति मे ॥२॥ रकारादीनि नामानि शृण्वतो मम पार्वति । मनः प्रसन्नतामेति रामनामाभिशङ्कया ॥३॥ १४९४ लोकाच्छेषस्य सिद्धिर्यथा मातरादेः १९ ॥ अस्स सारखतव्याकरणस्य ये शेषप्रयोगास्तेषां लोकात् अन्यव्याकरणासिद्धिर्भवति यथा मातरादेः । इत्यादिप्रयोगानुसारेण बोद्धव्यम् ॥

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304