Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 269
________________ सू०१४७६-१४८८] क्त्वाप्रत्ययाधिकारः ९ २६१ क्वाप्रत्ययाधिकारः ९ अथ क्त्वादयः प्रत्ययाः ॥ १४७६ पूर्वकाले क्त्वा १ ॥ धातोः क्त्वा प्रत्ययो भवति पूर्वकाले समानकर्तृके धातौ प्रयुज्यमाने ॥ देवदत्तः सात्वा भुते । भुक्त्वा व्रजति ॥ १४७७ न क्त्वा सेट् २॥ सेटू क्त्वा किन्न भवति ॥ वर्तित्वा । शपित्वा । भवित्वा । सेट किम् । कृत्वा ॥ १४७८ रलो व्युपधाद्धलादेः संश्च ३ ॥ उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः ॥ विद ज्ञाने । विदित्वा-वेदित्वा ॥ लिखित्वा द्युतित्वा। व्युपधात्किम् । वर्तित्वा । रलः किम् । सेवित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा ॥ १४७९ मृडमृदगुध्रगुहकुषक्लिशवदवसमुष्ग्रहिभ्यः ४. ॥ सेट् किद् भवति । मृड सुखने ! मृडित्वा । मृद क्षोदे। मृदित्वा। गुध् रोचने । गुधू रोषे। गुधित्वा । गुह रोगे । गुहू संवरणे । गुहित्वा । कुष् निष्कर्षे । कुषित्वा । क्लिश् विबाधे । क्लिशित्वा । वद व्यक्तायां वाचि । उदित्वा । वसू निवासे । उषित्वा । मुषित्वा । गृहीत्वा ॥ १४८० नोपधा. स्थफान्ताद्वा कित् ५॥ नकारोपधात् थफान्ताद्धातोः सेट् क्त्वा वा किद्भवति ॥ ग्रन्थ संदर्भ । नो लोपः (सू०७६२) प्रथित्वा-प्रन्थित्वा गुम्फू ग्रन्थने । गुफित्वा-गुम्फित्वा इत्यादि ॥ १४८१ अलंखल्वोः प्रतिषेधे क्त्वा ६॥ प्रतिषेधार्थयोरलंखलुशब्दयोः पूर्वपदयोः सतोः पूर्वकालं विनापि क्त्वा प्रत्ययो भवति ॥ अत्रालंखलुशब्दौ निषेधार्थों तयोरुपपदत्वात् । अलं भुक्त्वा न भोक्तव्यम् । भोजनं मा कुरु इत्यर्थः । खलु भुक्त्वा न भोक्तव्यम् ॥ १४८२ उदितः क्त्वा वेट ७ ॥ उदितो धातोः परस्य क्त्वाप्रत्ययस्य वा इडागमो भवति ॥ एषित्वा

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304