Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
२५० सारस्वतव्याकरणम् ।
[वृत्तिः३ १४०३ घन भावे ४ ॥ धातो वे घञ् प्रत्ययो भवति ॥ चजोः कगौ घिति (सू० १३५७) पच्यते तत् पचनं पाकः । त्यज् वयोहानौ । त्यज्यते तत् त्यजनं त्यागः । भज्यते तत् भजनं भागः । इज्यते तत् यजनं यागः । विभज्यते तत् विभजनं विभागः । युजिर योगे। अनुप्रयुज्यतेऽसौ अनुप्रयोगः । अनूच्यते तत् अनुवचनं अनुवाकः । इण् गतौ नन्दादित्वाद्युः । ततोऽनादेशः। गुणः वृद्धिः । अयनं आयः । भूयते तत् भवनं भावः । आतो युक् (सू० ११९२ ) दीयते तत् दानं दायः । पानं पायः ॥ १४०४ भावे करणेऽर्थे पनि रञ्जर्नलोपो वाच्यः ५॥ रज्यते अनेनेति रञ्जनं वा रागः । भावे किम् । रज्यतेऽस्मिन्निति रङ्गः । रभ राभस्ये ।। १४०५ रभलभोः स्वरेणाद्यपी विना नुम् वाच्यः ६॥ आरम्भः । अञ्च गतिपूजनयोः । परितो अञ्चतीति प्राङ्कः ॥ १४०६ संज्ञायामकर्तरि च ७ ॥ धातोः कर्तृवर्जिते कारके भावे कर्मणि च घञ् प्रत्ययो भवति संज्ञायां विषये ॥ कार्य कार्य प्रति आहियते इति प्रत्याहारः । दीयते अस्मिन् इति दायः । पीयते अस्मिन् इति पायः । विक्रियते अनेनेति विकारः । मृजूष शुद्धौ । अपामृज्यते अनेनेति अपामार्गः । लिख आलेखने । लिख्यतेऽस्मिन्निति लेखः। आचर्यतेऽसिन्निति आचारः । उपाधीयतेऽस्मादिति उपाध्यायः ॥ १४०७ स्वरादः ८॥ इउऋवर्णान्तेभ्यो धातुभ्यः अः प्रत्ययो भवति भावादौ॥ धनोपवादः । संचीयतेऽसौ संचयः। चयनं चयः । जीयते इति जयः । नीयते तत् नयनं नयः । उन्नीयते इति उन्नयः । नूयते तत् नवनं नवः । लवनं लवः । स्तूयते तत् स्तवनं स्तवः । कृ विक्षेपे । कीर्यते इति करः । न विक्षेपे । त्रियते विक्षिप्यते कामादिभिरिति नरः । पिञ् बन्धने । विशेषेण सीयते
जनयोः ।
कर्तृवाज
कार्य प्र

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304