Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
२५८
सारस्वतव्याकरणम् । [वृत्तिः ३ बज्यते अस्यामिति प्रव्रज्या । षद् विशरणगत्यवसादने । निषद्यते सा निषद्या । निपत्या । मन ज्ञाने । मन्यते सा मन्या । नम्या । विद्यते सा विद्या । सुत्या ॥ १४५२ शीडोऽयक किति ये वक्तव्यः २॥ शय्या । भृत्या । ईयते सा इत्या । कृत्या ॥ १४५३ को यक् वा वाच्यः ३ ॥ अयकि । क्रियते सा क्रिया ॥ १४५४ इषेश्छान्तादेशो यलोपश्च ४ ॥ इष्यते सा इच्छा ॥ १४५५ सरतेर्गुणः ५॥ परिसर्या । परिचर्या । अटाट्या । आस्या। चर्या ॥१४५६ जागर्तेर्गुणः ६ ॥ जागर्या । हनस्तकारान्तादेशो हिंसायामर्थे । हन्यते सा हत्या ॥१४५७ हन्तेस्तः ७ ॥ हन्तेर्नकारस्य तकारादेशो भवति क्यपि स्त्रियाम् ॥ ब्रह्म हन्यते इति ब्रह्महत्या ॥ १४५८ स्त्रियां भावे क्तिः ८॥ धातोः स्त्रियां भावे क्तिः प्रत्ययो भवति ॥ क्रियते सा कृतिः । बुद्ध्यते सा बुद्धिः । स्मृङ् चिन्तायाम् । मर्यते सा स्मृतिः । पच्यते सा पक्तिः। पचि विस्तारे । पञ्च्यते तत् पञ्चनं पंक्तिः। संप्रसारणं । उह्यते सा ऊढिः । संविद्यते संवित्तिः ॥ १४५९ शमां दीर्घः ९ ॥ शमादीनां दी? भवति क्तिप्रत्यये परे ॥ शम्यते सा शान्तिः। दम्यते सा दान्तिः । गम्यते सा गतिः। हन्यते सा हतिः । भ्रमु चलने । भ्रम्यते सा भ्रान्तिः । अनुभूयते तत् अनुभवनं अनुभूतिः। विशिष्टा भूतिः विभूतिः । प्रभूतिः । भवनं भूतिः । शुध शौचे । शोधनं शुद्धिः ॥ १४६० ईशशीडोर्वरक्तिप्रत्ययौ नेड्गुणश्च १०॥ ईशूशीडोर्वरक्तिप्रत्ययौ स्तो वरप्रत्ययस्य क्तिप्रत्ययस्य च इद् न शीडो गुणोऽपि न भवति ॥ ईष्टेऽसौ ईश्वरः। संशय्यते तत् संशयनम् संशीतिः । ही गतौ । हीयते इति हीतिः। जागरणं जागृतिः ।

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304