Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 263
________________ सू० १४३१-१४४८] कृत्यप्रक्रिया ७ २५५ प्रत्ययो भवति भावादौ ॥ घकारो घित्कार्यार्थः । णकारो वृद्ध्यर्थः । क्रियते वा कर्तुमर्ह कार्यम् । वृञ् वरणे । वियते तत् वार्यम् । चार्यम् । हस हसने । हास्यम् । ह्रियते तत् हार्यम् । हनो घत् (सू० १०४६) हन्यते तत् घात्यम् । चजोः कगौ घिति (सू० १३५७) पक्तुं योग्यं पाक्यम् । याच्यते तत् याच्यम् । रुज्यते तत् रोज्यम् । वच परिभाषणे ॥ १४३१ वचः शब्दसंज्ञायां कुत्वं वाच्यम् ९॥ तेन वाक्यम् । अन्यत्र वाच्यम् ॥ १४३२ यज्याच्वचूरुच्प्रवच्अत्यपूजूगर्जुभुजां घ्यणि कुत्वाभावः १० ॥ याज्यम् । याच्यम् । वाच्यम् । रोच्यम् । प्रवाच्यम् । अयम् । त्याज्यम् । पूज्यम् । गर्ज शब्दे । गय॑ते तत् गर्व्यम् । भुज्यते तत् भोज्यम् । बाधू हिंसायाम् । बाधितुं योग्यं बाध्यम् । भजितुं योग्यं भाज्यम् ॥ १४३३ ओरावश्यके घ्यण ११ ॥ उवर्णान्ताद्धातोरावश्यकेऽर्थे ध्यण् प्रत्ययो भवति ॥ १४३४ ओदौतोर्यः प्रत्ययः खरवत् १२ ॥ धातोरोकारौकारयोनिमित्तं वा संबन्धी यः प्रत्ययः स खरवत् स्यात् ॥ ॥ समासे अवश्यमादीनामन्तलोपमिच्छन्ति शाब्दिकाः॥ लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि। समो वा हितततयोर्मासस्य पचि युधजोः ॥१॥ लूञ् छेदने । लूयते वा लवितुं योग्यः लाव्यः । अवश्यं लाव्यो अवश्यलाव्यः । भोक्तुं कामो यस्य स भोक्तुकामः । श्रोतुं मनो यस्य स श्रोतुमनाः । सम्यक्प्रकारेण हितं सहितं संहितम् । संतत-सततम् । मांसस्य पचनं मांसपचनम् । युड्योः पचि परे मांसस्याकारो वा लुम्पेत् । मांसस्य पचनं मांसूपचनम् । मांसस्य पाकः मांस्पाकः मांसपाकः ॥ १४३५ ऋदुपधात् क्यप् १३ ॥ ऋका

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304