Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 248
________________ २१० सारस्वतव्याकरणम् । [वृत्तिः ३ ददातीति ददत्-दधत् ददती ददति । जक्ष भक्षहसनयोः। जक्षतीति जक्षत् जक्षती जक्षति जक्षन्ति कुलानि । जागृ निद्राक्षये । जागर्तीति जाप्रती जाग्रत् जाग्रन्ति-जाग्रती । दरिद्रा दुर्गतौ ॥ १३३२ दरिद्रातरालोपो वक्तव्यः १६ ॥ दरिद्रातीति दरिद्रत् दरिद्रन्ती दरिद्रति दरिद्रन्ति । चकास्तीति चकासत् चकासति चकासन्तिचकासति । शास्तीति तत् शासत् । अनुशास्ति तत् अनुशासत् । दादेः (सू० ९५७) ददत् ददती ददन्ति-ददति । दधत् इत्यादि । १३३३ विदेवो वसुः १७ ॥ विदेर्धातोः शतृविषये वा वसुःप्रप्रत्ययो भवति ॥ वेत्तीति विद्वान्-विदन् ॥ १३३४ भविष्यदर्थे तितेवत् शतृशानौ भवतः १८ ॥ १३३५ अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थे निपात्येते १९॥ अत्रभवन्तो भट्टमिश्राः। पूज्या इत्यर्थः । तत्रभवद्भिर्भगवत्पादैर्भणितम् ॥ १३३६ शीले तृन् २०॥ धातोस्तृन् प्रत्ययो भवति शीले खभावेऽर्थे ॥ नकारः प्रत्ययभेदज्ञापनार्थः । करोतीत्येवंशीलः कर्ता। विचरतीत्येवंशीलः विचरिता । णीञ् प्रापणे । नयतीत्येवंशीलः नेता । धर्ता । म्रियते इत्येवंशीलः मर्ता । बिमर्तीत्येवंशीलः भर्ता । शयिता इत्यादि ॥ इति कखादिप्रक्रिया ॥ ३ ॥ शीलार्थप्रक्रिया ४ अथ शीलार्थप्रक्रिया ॥ १३३७ इष्णुस्नुक्रुः १॥ धातोः शीले खभावेऽर्थे इष्णु स्नु नु इत्येते प्रत्यया भवन्ति । अलंपूर्वः ॥१३३८ अलंकृञ् निराकृञ् प्रजन् उत्पच उत्पत् उत्पद् ग्रस् उन्मत् रुच अपत्र' वृतु वुधु सह चर भू भ्राञ् ञ्यन्त एभ्य इष्णुः २॥अलंकरोतीत्येवंशीलः अलंकरिष्णुः। निराकरिष्णुः । प्रजायते इत्ये

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304