Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
सू० १३२७-१३३८] कस्वादिप्रक्रिया ३
पचमानः । पिबति वा पठति । यज देवपूजासंगतिकरणदानेषु । यजतेऽसौ यजमानः स्तौति । मन ज्ञाने । मन्यतेऽसौ मन्यमानः । मनु अवबोधने । तनादेरुप (सू० ९९७) मनुतेऽसौ मन्वानः । परागच्छति करोतीति कुर्वन् सः । ढित्यदुः ( सू० १००० ) कुरुतेऽसौ कुर्वाणः । क्रियतेऽसौ क्रियमाणः ॥ १३२७ उपसर्गस्थनिमित्चात नकारस्य णो वाच्यः ११ ॥ प्रपीयतेऽसौ प्रपीयमाणः ॥ १३२८ आसेरानई १२ ॥ आसेर्धातोः परस्य आन आकारस्य ईकारादेशो भवति ॥ आस् उपवेशने । आस्तेऽसौ आसीनः ॥ १३२९ वा दीपोः शतुः १३ ।। अवर्णात्परस्य शतृप्रत्ययस्य वा नुमागमो भवति ईकारे ईपि च परे ॥ तुद व्यथने । तुदतीति तुदन् । तुदन्तौ तुदन्तः । स्त्रीलिङ्गे तुदति सा तुदन्ती-तुदती तुदन्त्यौ-तुदत्यौ तुदन्त्यः-तुदत्यः । नपुंसके तुदतीति तुदत् तुदन्ती-तुदती तुदन्ति । इत्यादि ॥ १३३० अप्ययोरान्नित्यम् १४ ॥ अप्प्रत्यययप्रत्ययसंबन्धिनः अकारात्परस्य शतुर्नित्यं नुमागमो भवति ईपोः परतः ।। भवति इति भवन् भवन्तौ भवन्तः । भवति सा भवन्ती भवन्त्यौ भवन्त्यः । भवति तत् भवत् भवन्ती भवन्ति । पचतीति पचन् पचन्ती स्त्री । नपुंसके पचति तत् पचत् पचन्ती पचन्ति । दिवु क्रीडादिषु । दीव्यति इति दीव्यन् दीव्यन्ती स्त्री नपुंसके । दीव्यति तत् दीव्यत् दीव्यन्ती दीव्यन्ति । पठतीति पठन् । पठन्ती स्त्री । नपुंसके पठन् पठन्ती पठन्ति । हसतीति हसन् । हसन्ती स्त्री हसत् नपुंसके । श्लिष्यतीति श्लिष्यन् । श्लिष्यन्ती स्त्री। श्लिष्यत् नपुंसके । जयतीति जयन् । जयन्ती स्त्री । नपुंसके जयत् ॥ १३३१ वादिपोः शतुरित्यत्र वाशब्दात द्विरुक्तानां जक्षादीनां च शतुर्नित्यं नुमप्रतिषेधो वक्तव्यः नपुंसके शौ वा १५ ॥

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304