Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 200
________________ १९२ . सारस्वतव्याकरणम् । [वृत्तिः२ वृद्धिः । गणयति ॥ १०४० अल्लोपिनो नाकार्यम् १० ॥ अजगणत् । कथगणयोरङ्कार्य चेति केचित् । अजीगणत् । ऋथ वाक्यप्रबन्धे । कथयति । अचकथत्-अचीकथत् । उन परिहाणे । ऊनयति ॥ १०४१ जिनिमित्तस्वरादेशो द्वित्वे कर्तव्ये स्थानिबत् ११ ॥ खरादेः परः ( सू० १०३८ ) अर्थङ् याचने । अर्थयते । आथित । संग्रामङ् युद्धे । अससंग्रामत ॥ अन्ध दृष्टयुपघाते । आन्दधत् । अङ्क अङ्ग पदे लक्षणे च । आञ्चकत् ॥ इति चुरादिगणः ॥ २६ ॥ ___ व्यन्तप्रक्रिया २७ . ॥ अथ ज्यन्ताः ॥ १०४२ धातो प्रेरणे १ ॥ प्रयोजकव्यापारेऽर्थे धातोनिः प्रत्ययो भवति ॥ कुर्वन्तं प्रेरयति यः स प्रयोजकः । कारयति कारयते । अचीकरत् । पाचयति अपीपचत् । भक्तं प्रेरयति भावयति भावयते । भावयांबभूव । १०४३ अङ्सयोः २ । पूर्वस्योकारस्येत्वं पवर्गयवरलजकारेध्ववर्णपरेषु परतः ॥ १०४४ द्विर्निमित्तेचि ३ ॥ द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये ॥ अबीभवत् । मृङ् मोहने । मावयति । अमीमवत् । यु मिश्रणे। अयीयवत् । रु शब्दे । अरीरवत् । लूञ् छेदने । अलीलवत् । जु गतौ । अजीजवत् ॥ १०४५ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् ४ ॥ अङ्. सयोः पूर्वस्येत्वं वाऽवर्णपरे धात्वक्षरे परे ॥ असिस्रवत्-असुस्रवत् । अशिश्रवत्-अशुश्रवत् । अदिद्रवत्-अदुद्रवत् ॥१०४६ हनो घत् ५॥ हन्तेर्घदादेशो भवति ब्णिति णपवर्जिते परतः ॥ घातयति । अजीघतत् । शदूल शातने ॥ १०४७ शदेः शत् ६॥ शदेः शतादेशो

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304