Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
२२५
सू० १२४१-१२५२] कृदन्तप्रकरणम् १ यस्यासौ उन्मनाः, न उन्मनाः अनुन्मनाः, अनुन्मनाः उन्मनाः संपद्यमानस्तथा भाव इति उन्मनीभावः । विगतं मनो यस्याऽसौ विमनाः, न विमनाः अविमनाः, अविमना विमनाः संपद्यमानः तथा भाव इति विमनीभावः । न विद्यते मनो यस्यासौ अमनाः, न अमनाः अनमनाः, अनमनाः अमनाः संपद्यमानस्तथा भाव इति अमनीभावः । तथा सुमनीभावः । सुचेतीभावः । महीकरोति । अरूकरोति । चक्षूकरोति ॥ १२४१ डाच् कचिद्वक्तव्यः ५५॥ अभूततद्भावेऽर्थे कचित् डाच् प्रत्ययो भवति ॥ अदुःखं दुःखं संपद्यते तत् करोतीति दुःखाकरोति । तथा भद्राकरोति ॥ १२४२ आतो मनिपकनिब्वनिप: ५६ ॥ प्रादौ नाम्नि च प्रयुज्यमाने आकारान्ताद्धातोर्मनिप् कनिप् वनिप् इत्येते प्रत्यया भवन्ति ॥ सुष्ठु ददातीति सुदामा । राजन्शब्दवद्रूपम् । खसे चपा झसानाम् ( सू० ८९) अश्वे तिष्ठतीति अश्वत्थामा ॥१२४३ स्थामी ५७ ॥ इश्च ईश्व ई दासोमास्तां हख इकारो भवति । दा सोमा स्थां ह्रख इकारो भवति धागैहाकपिबतीनां दीर्घ ईकारो भवति तकारादौ किति हसे परे, न क्यपि विपि वा कनिप्प्रत्ययः। सुष्ठु पिबतीति सुपीवा । भूरि ददातीति भूरिदिवा। घृतं पिबतीति घृतपीवा । धनदिवा । मलसिवा। मार्गस्थिवा। धनधीवा । सुगीवा । दोषहीवा ।। १२४४ कनिए कचिदन्येभ्योऽपि दृश्यते ५८ ॥ सुष्टु करोतीति सुकर्मा । सुष्टु शृणोतीति सुशर्मा । अन प्राणने। अत्र विप् । प्राणितीति प्राण प्राणौ प्राणः। हे प्राण ॥१२४५ अनः ५९ ॥ पदान्ते वर्तमानस्यापि अनो नस्य णत्वं स्यात् । अधौ इति विशेषणान्नलोपो न शङ्कनीयः ॥ १२४६ ह्रस्वस्य पिति कृति तुक ६० ॥ हखस्य पिति कृति परे तुगागमो भवति ॥ इण् गतौ । प्रातरेतीति प्रातरित्वा ॥१२४७ वनिपि अमस्याऽत्वं वाच्यम् ६१॥
१५

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304