________________
अथ का सा पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ?, सूरिराह-पञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना चतुर्विधा प्रज्ञप्ता, तद्यथा-'नैरयिके' त्यादि, अयम्-इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया-नरकावासास्तेषु भवा नैरयिकास्ते |च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च नैरयिकपञ्चेन्द्रियसंसारसमापन्नजीवास्तेषां प्रज्ञापना, तथा 'अञ्च गतौ' तिरोऽ|श्चन्तीति तिर्यञ्चः, 'तिरसस्तिर्यतीति' तिरसस्तिर्यादेशः, तेषां योनिः-उत्पत्तिस्थानं तिर्यग्योनिस्तत्र भवास्तैर्यग्योनिकास्ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना तैर्यग्योनिकपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा मनुशब्दो मनुष्यवाची यथा राजशब्दो राजन्याभिधायकः, मनोरपत्यानि मनुष्याः, 'मनोर्यणौ यश्चेति' यः प्रत्ययः षकारश्चागमः, अयं च यः प्रत्ययो जाताविति मनुष्यशब्दोजातिवाची राजन्यशब्दवत्,ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषां प्रज्ञापना मनुष्यपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना, तथा दीव्यन्ति-खेच्छया क्रीडन्तीति देवाः भवनपत्यादयः ते च ते पञ्चेन्द्रियसंसारसमापन्नजीवाश्च तेषांप्रज्ञापना देवपञ्चेन्द्रियसंसारसमापन्नजीवप्रज्ञापना ॥ तत्र नैरयिकप्रतिपादनार्थ प्रश्ननिर्वचनसूत्रे आह
से किं तं नेरइया ?, नेरइया सत्तविहा पन्नत्ता, तं०-रयणप्पभापुढविनेरइया १ सकरप्पभापुढविनेरइया २ वालुयप्पभापुढविनेरइया ३ पंकप्पभापुढविनेरइया ४ धूमप्पभापुढविनेरइया ५ तमप्पभापुढविनेरइया ६ तमतमप्पभापुढविनेरइया ७, ते समासओ दुविहा पन्नत्ता, तं०-पञ्जत्तगा य अपज्जत्तगा य, से त् नेरइया ॥ (मू०३१)
प्र.८ Jain Education
)
For Personal & Private Use Only
X
elibrary.org