Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 690
________________ प्रज्ञापनायाः मल'यवृत्ती. ॥३४२॥ इहासजिनः प्रथमपृथिव्यामेवोत्पद्यन्ते "अस्सन्नी खलु पढम"मिति [असंज्ञिनः खलु प्रथमां] वचनात् , प्रथमायां १७लेश्याच पृथिव्यां न कृष्णलेश्या यत्र च पञ्चम्यादिषु पृथिवीषु कृष्णलेश्या न तत्रासब्जिन इति, तत्र मायिनो मिथ्या-पदे उद्देशः दृष्टयश्च महावेदना भवन्ति, यतःप्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निवर्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना इतरेषु विपरीतेति । असुरकुमारादयो यावत् व्यन्तरास्तावद्यथा ओधिका उक्तास्तथा वक्तव्याः, नवरं मनुष्याणां क्रियाभिर्विशेषः, तमेव विशेष दर्शयति-तत्थ. णं जे ते' इत्यादि, तत्र-तेषु सम्यग्दृष्टयादिषु मध्ये येते सम्यग्दृष्टयस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-संयता असंयताः संयतासंयताश्च, 'जहा ओहियाणमिति एतेषां यथौधिकानामुक्तं तथा कृष्णलेश्यापदविशेषितानामपि वक्तव्यं, तद्यथा-संयतानां द्वे क्रिये आरम्भिकी मायाप्रत्यया च, कृष्णलेश्या हि प्रमत्तसंयतानां भवति नाप्रमत्तसंयतानां, तेषां तु यथोक्तरूपे एव द्वे क्रिये, संयतासंयतानां तिस्रःआरम्भिकी पारिग्रहिकी मायाप्रत्यया च, असंयतानां चतस्रः-आरम्भिकी पारिग्रहिकी मायाप्रत्यया अप्रत्याख्या-| नक्रिया चेति । ज्योतिष्कवैमानिकास्तु आद्यासु तिसृषु लेश्यासु न पृच्छयन्ते, किमुक्तं भवति ?-तद्विषयं सूत्रं न वक्तव्यं, तासां तेष्वभावात् , यथा च कृष्णलेश्याविषयं सूत्रमुक्तं तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावा ॥३४२॥ द्, एतदेवाह-‘एवं जहा किण्हलेसा विचारिया तहा नीललेस्सा विचारेयवा' नीललेश्याविषयोऽपि सूत्रदण्डक एवमेव, केवलं कृष्ललेश्यापदस्थाने नीललेश्यापदमुच्चरितव्यमिति भावः, 'कापोतलेस्सा' इत्यादि, कापोतलेश्या हि 9200292020900200092909202 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752