Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
गोयमा ! तं चेव, से नूर्ण भंते ! सुक्कलेसा किण्ह० नील० काउ० तेउ० पम्ह० लेसं पप्प जाव भुञ्जो २ परिणमइ ?, हंता गोयमा ! तं चेव (सूत्र २२५)
'कइ णं भंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रं प्रागप्युक्तं परं परिणामाद्यर्थप्रतिपादनार्थं भूय उपन्यस्तं 'से नूणं भंते' इत्यादि, अथ भदन्त कृष्णलेश्या-कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्या-नीललेश्यायोग्यानि द्रव्याणि प्राप्य-अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतया-नीललेश्यारूपतया, रूपशब्दोऽत्र खभाववाची, नीललेश्याख-19 | भावतयेत्यर्थः भूयो भूयः परिणमतीति योगः, तत्वभावश्च तद्वर्गणा(द्वर्णा)दिरूपतया भवति तत आह-तद्वर्णतया तद्रसतया तद्न्धतया तत्स्पर्शतया, सर्वत्रापि तच्छब्देन नीललेश्यायोग्यानि द्रव्याणि परामृशन्ति, भूयो भूयःअनेकवारं तिर्यग्मनुष्याणां तत्तद्भवसङ्कान्तौ शेषकालं वा परिणमते, इदं हि तिर्यगमनुष्यानधिकृत्य वेदितव्यं, एवं गौतमेन प्रश्ने कृते भगवानाह-'हंता गो' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् गौतम ! कृष्णलेश्या नीललेश्या
प्राप्येत्यादि प्राग्वत् , इयमत्र भावना-यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसङ्क्रान्ति चिकीहाललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्कतस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथा
रूपजीवपरिणामलक्षणं सहकारिकारणमासाद्य नीललेश्याद्रव्यरूपतया परिणमन्ते, पुद्गलानां तथातथापरिणमनखभावत्वात् , ततः स केवलनीललेश्यायोग्यद्रव्यसाचिव्यान्नीललेश्यापरिणतः सन् कालं कृत्वा भवान्तरे समुत्प
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org

Page Navigation
1 ... 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752