Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
'कण्हलेसा ण'मित्यादि, अत्र 'कइविहं परिणाम' इत्यत्र प्राकृतत्वात् तृतीयार्थे द्वितीया द्रष्टव्या यथाऽऽचाराङ्गे "अगणि(च खलु) पुट्ठा" इत्यत्र, ततोऽयमर्थः-कृष्णलेश्या णमिति वाक्यालङ्कारे भदन्त ! कतिविधेन परिणामेन परिणमति ?, भगवानाह-'गोयमा! तिविहं वा' इत्यादि, इह त्रिविधो-जघन्यमध्यमोत्कृष्टभेदेन नवविधो यदैपामपि जघन्यादीनां खस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वं एकाशीतिविधत्वं त्रिचत्वारिंशदधिकशतद्वयविधत्वं बहुत्वं बहुविधत्वं भावनीयं, सर्वत्र च तृतीयार्थे द्वितीया, ततस्त्रिविधेन वा परिणामेन परिणमति नवविधेन वा इत्येवं पदानां योजना कर्तव्या, 'एवं जाव सुक्कलेसा' इति एवं-कृष्णलेश्यागतेन प्रकारेण नीलादयोऽपि लेश्यास्तावद्वक्तव्याः यावत् शुक्ललेश्या, सूत्रपाठस्तु सुगमत्वात् खयं परिभावनीयः॥ सम्प्रति प्रदेशद्वाराभिधित्सया प्राह-कण्हलेसा णं भंते ! कइपएसिया' इत्यादि सुगम, नवरमनन्तप्रादेशिकेति-अनन्तानन्तसङ्ख्योपेताः प्रदेशाः-तद्योग्याः परमाणवो यस्याः कृष्णलेश्यायाःकृष्णलेश्याद्रव्यसंघातस्य साऽनन्तप्रादेशिका, अन्यथा-अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यताया एवाभावात्, एवं नीलादयोऽपि लेश्या वक्तव्याः , तथा चाह-एवं जाव सुक्कलेसा' इति ॥ अवगाहनाद्वारमाह- कण्हलेस्सा णं भंते !' इत्यादि, इह प्रदेशाः-क्षेत्रप्रदेशाः प्रतिपत्तव्याः, तेष्वेवावगाहप्रसिद्धेः, ते चानन्तानामपि वर्गणानामाधारभूता असङ्खयेया एव द्रष्टव्याः, सकलस्यापि लोकस्य प्रदेशानामसङ्ख्यातत्वात् ॥ वर्गणाद्वारमाह-'कण्ह
99299999999999
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752