Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनाया: मलय०वृत्ती.
॥३७०॥
नानि क्रमेण द्रव्यार्थतयैव यथोत्तरमसङ्ख्येयगुणानि वाच्यानि, एवं प्रदेशार्थतयापि जघन्योत्कृष्ट स्थानविषयमल्पबहुत्वं १७लेश्या भावनीयं, तथा चाह-'एवं जहेव दबट्टयाए तहेव पएसट्टयाएवि भाणियवं, नवरं पएसट्टयाएत्ति अभिलावे पदे उद्देशः विसेसो' इति, द्रव्यार्थप्रदेशार्थतायां प्रथमतो द्रव्यार्थतया जघन्यानि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि ततो जघन्येभ्यः शुक्ललेश्यास्थानेभ्य उक्तक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसङ्ख्येयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुक्ललेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि । प्रदेशार्थतया अनन्तगुणानि वक्तव्यानि ततः प्रदेशार्थतयैव जघन्यानि नीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि यथोत्तरमसङ्ख्येयगुणानि एवमुत्कृष्ट स्थानान्यपि उक्तक्रमेणैव यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानीति ॥ ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां लेश्यापदस्य चतुर्थ उद्देशकः परिसमाप्तः॥
उक्तश्चतुर्थोद्देशकः सम्प्रति पञ्चम आरभ्यते, तस्य चेदमादिसूत्रम्
कइणं भंते ! लेस्साओ पन्नत्ताओ?, गोयमा! छ लेसाओ पन्नत्ताओ, तंजहा-कण्हलेसा जाव सुक्कलेसा, से नूणं भंते ! कण्हलेस्सा नीललेसं पप्प तारूवत्ताए तावन्नताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो भुजो परिणमति, इत्तो आढत्तं जहा चउत्थओ उद्देसओ तहा भाणियत्वं जाव वेरुलियमणिदिटुंतोत्ति ॥ से नूर्ण भंते ! कण्हलेसा नीललेस पप्प
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752