Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 745
________________ भवन्ति, तानि च व्यवहारतः स्तोकगुणत्वात् सर्वाण्यपि जघन्यान्येवोच्यन्ते, एवमात्मनोऽपि जघन्यैकगुणाधिकद्विगुणाधिकलेश्याद्रव्योपधानवशतो लेश्यापरिणामविशेषा असङ्ख्यया भवन्ति, ते च सर्वेऽपि व्यवहारतोऽल्पगुणत्वात् जघन्यव्यपदेशं लभन्ते, तत्कारणभूतानि च द्रव्याणामपि स्थानानि जघन्यानि, एवमुत्कृष्टान्यपि स्थानान्यसयेयानि भावनीयानि ॥ सम्प्रत्यल्पबहुत्वमाह-'एएसि णं भंते !' इत्यादि, इह त्रीणि अल्पबहुत्वानि, तद्यथाजघन्यस्थानविषयं उत्कृष्टस्थानविषयं उभयस्थानविषयं च, एकैकमपि त्रिविधं, तद्यथा-द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च, तत्र जघन्यस्थानविषये द्रव्यार्थतायां प्रदेशार्थतायां च प्रत्येकं कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि, उभयार्थतायां प्रथमतो द्रव्यार्थतया कापोतनीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि, ततः शुक्ललेश्यास्थानानन्तरं प्रदेशार्थतया कापोतिलेश्यास्थानानि अनन्तगुणानि वक्तव्यानि तदनन्तरं नीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण प्रदेशार्थतया यथोत्तरमसङ्ख्येयगुणानि, एवमुत्कृष्टान्यपि स्थानानि द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च चिन्तयितव्यानि, तथा चाह-एवं जहेव जहन्नगा तहेव उक्कोसगावि नवरमुक्कोसत्ति अभिलावो' इति ॥जघन्योत्कृष्ट स्थानसमुदायविषये त्वल्पबहुत्वे प्रथमतो जघन्यानि द्रव्यार्थतया कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्ख्येयगुणानि वक्तव्यानि, तदनन्तरं जघन्यशुक्ललेश्यास्थानेभ्य उत्कृष्टानि कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्था 20209002088200000 oe Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752