Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 729
________________ NREResesesedeseseksee पोतः कृष्णकेशरः-कृष्णबकुलः आकाशथिग्गलं-शरदि मेघापान्तरालवाकाशखण्ड, तदपि हि अतीव उष्णं । प्रतिभाति इत्युक्तं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः-अशोककणवीरबन्धुजीवाः वृक्षविशेषाः, अशोकादयो हि जातिभेदेन पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथै कृष्णग्रहणं, एतावत्युक्ते गौतम आह-'भवे एयारूवा ?' भगवन् ! भयेत् कृष्णलेश्या वर्णेन एतद्रूपा १, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्थ उपपन्नः, एतद्रूपा कृष्णलेश्येति, किंतु ?, सा कृष्णलेश्या इतो जीमूतादेः कृष्णेन वर्णेन अनिष्टतरिका चैव इयमनिष्टा २ इयमनयोर्मध्येऽतिशयनानिष्टा अनिष्टतरा अनिष्टतरैवानिष्टतरिका अनिप्सिततरिका एवेति भावः, इह किञ्चिदनिष्टमपि खरूपतः कान्तं भवति ततः कान्तताव्युदासार्थमाह-अकान्ततरिकैव, किञ्चित्केषाश्चिदनिष्टमपि खरूपतोऽकान्तमपि अपरेषां प्रियं भवति ततः सर्वथा प्रियताव्युदासार्थमाह-अप्रियतरिकैव, अत एवामनोज्ञतरिकैव, घस्तुतः सम्यक् परिज्ञाने सति मनागप्युपादेयतया तत्र मनसःप्रवृत्त्यसंभवात् , अमनोज्ञतरमपि किञ्चिन्मध्यमं भवति ततः प्रकृष्टतरप्रकविशेषप्रतिपादनार्थमाह-अमनआपतरिकैव, मनांसि आप्नोति-आत्मवशतां नयतीति मनापा न मनपा अमनआपा ततो द्वयोः प्रकर्षे तरप एवंभूता वर्णन प्रज्ञप्ता, 'नीललेस्सा णं भंते!' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरं भृङ्गः-पक्षिविशेषः पक्ष्मलः भृङ्गपत्रं-तस्यैव पक्षिविशेषस्य पक्ष्म चासः-पक्षिविशेषः 'चासपिच्छं' चासस्य पतत्रं शुकः-कीरः 'शुकपिच्छे' शुकस्य पतत्रं श्यामा-प्रियङ्गः वनराजी-प्रतीता उच्चन्तको-दन्तरागः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752