Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनायाः मल
य० वृत्ती.
॥३६२॥
आह च मूलटीकाकार:- " उच्चंतगो दन्तरागो भन्नइ" पारापतग्रीवा मयूरग्रीवा च सुप्रतीता, हलधरो-बलदेवः तस्य वसनं - वस्त्रं हलधरवसनं, तद्धि नीलं भवतीत्युपात्तं, अतसीकुसुमं वणवृक्षकुसुमं च प्रतीतं, अञ्जनकेसिका - वनस्पतिविशेषः तस्याः कुसुमं अञ्जनकेसिकाकुसुमं नीलोत्पलं – कुवलयं नीलाशो कनीलकणवीर नीलबन्धुजीवा - अशो कादिवृक्षविशेषाः, 'काउलेस्सा णं भंते !' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, खदिरसारो धमासासारश्च लोकप्रतीतः 'तंबे इ वा तंबकरोडए इ वा तंबछेवाडिया इ वा' इति सम्प्रदायादवसेयं वृन्ताकीकुसुमं प्रतीतं कोइल - |च्छदकुसुमए वेति — कोकिलच्छदः – तैलकंटकः, तथा च मूलटीकाकृत् – 'वन्नाहिगारे जो एत्थ कोइलच्छदो सो तिलकंटओ भन्नइ' इति, तस्य कुसुमं प्रतीतं 'तेउलेस्सा णं भंते!' इत्यादि, शशकोरभ्रवराहमनुष्यरुधिराणि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः - सद्योजातः इन्द्रगोपकः, स हि प्रवृद्धः | सन् ईषत्पाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः -- प्रावृप्रथमसमयभावी कीटविशेषः, बालदिवाकरः - प्रथममुद्गच्छन् सूर्यः, गुआ - लोकप्रतीता तस्या अर्धरागो गुञ्जर्धरागः, गुञ्जया हि अर्धमतिरक्तं भवति अर्ध चातिकृष्णमिति अर्धग्रहणं, जात्यः - प्रधानो हिङ्गुलको जात्यहिङ्गुलकः प्रवालः – शिलादलं तस्याङ्करः प्रवालाङ्कुरः, स हि प्रथममुद्गच्छन् अत्यन्तरक्तो भवति ततस्तदुपादानं, लाक्षारसः - प्रतीतः, लोहिताक्षमणिः - लोहिताक्षनामा रत्न- विशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः, गजतालुचीन पि
Jain Education International
For Personal & Private Use Only
१७लेश्या
पदे उद्देशः
४
॥३६२॥
www.jainelibrary.org

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752