Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 712
________________ प्रज्ञापनाया: मलय० वृत्ती. १७ लेश्यापदे उद्देशः ॥३५३॥ Seeeeeeeeeee नैरयिको नैरयिकेषत्पद्यते नो अनैरयिकः, कथमिति चेद् ?, उच्यते, इह यस्मान्नारकादिभवोपग्राहकमायु शेष, तथाहि-नारकायुषि उदयमागते नारकभवो भवति मनुष्यायुषि मानुषभव इत्यादि, ततो नारकाद्यायुर्वेदनप्रथमसमये एव नारकादिव्यपदेशं लभते, एतच ऋजुसूत्रनयदर्शनं, तथा च नयविद्भिः ऋजुसूत्रनयखरूपनिरूपणं| कुर्वद्भिरिदमुक्तं-"पलालं न दहत्यनिर्भिद्यते न घटः क्वचित् । नाशून्ये निष्क्रमोऽस्तीह, न च शून्यं प्रविश्यते ॥१॥ नारकव्यतिरिक्तश्च, नरके नोपपद्यते । नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते ॥२॥” इत्यादि, 'एवं जाव वेमाणिए' एवं-नैरयिकोक्तप्रकारेण तावद्वक्तव्यं यावद्वैमानिको-वैमानिकविषयं सूत्रं, तच्च सुगमत्वात् वयं परिभावनीयं ॥ अधुना उद्वर्त्तनाविषयं नैरयिकेषु सूत्रमाह-'नेरइए णं भंते !' इत्यादि, एतदपि ऋजुसूत्रनयदर्शनेन वेदितव्यं, तथाहि-परभवायुषि उदयमागते तत उद्वर्त्तते यद्भवायुश्चोदयमागतं तेन भवेन व्यपदेशः, यथा नारकायुषि उदयमागते नारकभवेन नारक इति, ततो नैरयिकेभ्योऽनैरयिक एवोद्वर्त्तते न नैरयिक इति । एवं चतुर्विंशतिदण्डकक्रमेण तावत्सूत्रं वक्तव्यं यावद्वैमानिकविषयं, नवरं ज्योतिष्कवैमानिकविषये च्यवनं इत्यभिलापः कर्त्तव्यः, तेभ्य उद्वर्त्तनस्य च्यवनमिति प्रसिद्धेः, तथा चाह-एवं जाव वेमाणिए नवर'मित्यादि ॥ अधुना कृष्णलेश्याविषयमुत्पत्तौ सूत्रमाह-'से नूणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थः स चेह प्रश्ने नूनं-निश्चितमेतत् भदन्त ! कृष्णलेश्यो नैरयिकः कृष्णलेश्येषु नैरयिकेषु मध्ये उत्पद्यते तेभ्यश्च कृष्णलेश्येभ्यो नैरयिकेभ्य उद्ध ॥३५३॥ dan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752