Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापनाया मल
य० वृत्तौ.
॥३५७॥
आभिणिवोहियनाण एवं जहेव कण्हलेसाणं तहेव भाणियवं जाव चउहिं, एगंमि नाणे होज्जा, एगंमि केवलनाणे होजा ( सू २२४ ) पनवणाए भगवईए लेस्सापए तइओ उद्देसओ समत्तो ॥
' कहलेसे णं भंते ! जीवे कइसु नाणेसु होज्जा' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्वयोस्त्रिषु चतुर्षु च ज्ञानेषु भवति, तत्र द्वयोराभिनिवोधिक श्रुतज्ञानयोः त्रिषु आभिनिबोधिक श्रुतावधिज्ञानेषु यदिवाऽऽभिनिबोधिकश्रुतमनः पर्यायज्ञानेषु, इहावधिरहितस्यापि मनः पर्यवज्ञानमुपजायते, सिद्धप्राभृतादावनेकशस्तथा प्रतिपादनात्, अन्यच विचित्रा प्रतिज्ञानं तदावरणक्षयोपशमसामग्री, तत्र कस्यापि चारित्रिणोऽप्रमत्तस्याम पषध्याद्यन्यतमकतिपलब्धिसमन्वितस्य मनःपर्यायज्ञानावरणक्षयोपशमनिमित्ता सामग्री तथारूपाध्यवसायादिलक्षणा सम्पद्यते न त्ववधिज्ञानावरणक्षयोपशमनिमित्ता ततस्तस्य मनः पर्यवज्ञानमेव भवति, ननु मनः पर्यवज्ञानमतिविशुद्धस्योपजायते कृष्णलेश्या च संक्लिष्टाध्यवसायरूपा ततः कथं कृष्णलेश्याकस्य मनःपर्यायज्ञानसम्भवः १, उच्यते, इह लेश्यानां प्रत्येकास ज्येय लोका का शप्रदेशप्रमाणान्यध्यवसाय स्थानानि, तत्र कानिचित् मन्दानुभावान्यध्यवसायस्थानानि प्रमत्तसंयतस्यापि लभ्यन्ते, अत एव कृष्णनीलकापोतलेश्या अन्यत्र प्रमत्तसंयतान्ता गीयन्ते मनःपर्यवज्ञानं च प्रथमतोऽप्रमत्त संयतस्योत्पद्यते ततः प्रमत्तसंयतस्यापि लभ्यते इति सम्भवति कृष्णलेश्याकस्यापि मनः पर्यवज्ञानं चतुभिनिवोधिकश्रुतावधि मनः पर्यवज्ञानेषु, 'एवं जाव पम्हलेसे' इति एवं कृष्णलेश्योक्तेन प्रकारेण तावद्र वक्तव्यं
Jain Education International
For Personal & Private Use Only
१७ लेश्या| पदे उद्देशः
३
॥३५७॥
www.jainelibrary.org

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752