Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
हर्तमानः कृष्णलेश्य एवोद्वर्त्तते, एतदेव निश्चयदाढ्योत्पादनार्थ प्रकारान्तरेणाह-यल्लेश्य उत्पद्यते तल्लेश्य उद्वर्त्तते
|न लेश्यान्तरगत इति ?, भगवानाह-'हंता गोयमा !' इत्यादि, हन्तेत्यनुमती अनुमतमेतत् मम गौतम ! 'कण्ह|लेसेसु नेरइए' इत्यादि, अथ कथं कृष्णलेश्यः सन् कृष्णलेश्येषु नैरयिकेषूत्पद्यते न लेश्यान्तरोपेतः १, उच्यते, इह तिर्यपञ्चेन्द्रियो मनुष्यो वा बद्धायुष्कतया नरकेषुत्पत्ति(तितु)कामो यथाक्रमं तिर्यगायुषि मनुष्यायुषि च साकल्ये-18|| नाक्षीणेऽन्तर्मुहूर्तशेषे यल्लेश्येषु नरकेषुत्पत्स्यते तद्गतलेश्यया परिणमति, ततस्तेनैवाप्रतिपतितेन परिणामेन नरकायुः । प्रतिसंवेदयते, तत उच्यते कृष्णलेश्यः कृष्णलेश्येषु नैरयिकेपूत्पद्यते न लेश्यान्तरयुक्तः, अथ कथं कृष्णलेश्याक एवोद्व
ते ?, उच्यते, देवनैरयिकाणां हि लेश्यापरिणाम आभवक्षयाद् भवति, एतच प्रागेव प्रपञ्चत उपपादितं, एवं नीललेश्याविषयं कापोतलेश्याविषयं च सूत्रं वक्तव्यं, एवं असुरकुमारादीनामपि सनत्कुमारपर्यवसानानां वक्तव्यं, नवरं । तेजोलेश्यासूत्रं तत्राभ्यधिकमभिधेयं, तेजोलेश्याया अपि तेषां भावात् ॥ अधुना पृथिवीकायिकेषु कृष्णलेश्याविषयं सूत्रमाह-'से नूणं भंते !' इत्यादि, इह तिरश्चां मनुष्याणां च लेश्यापरिणाम आन्तर्मुहूर्त्तिकस्ततः कदाचित् यल्लेश्य उद्वर्त्तते कदाचिलेश्यान्तरपरिणतोऽपि उद्वर्त्तते, एष पुनर्नियमो यो यल्लेश्येषूत्पद्यते स नियमतस्तल्लेश्य एवो-14 त्पद्यते, "अंतमुहुत्तम्मि गए अंतमुहुत्तम्मि सेसए आउं (चेव)। लेसाहिं परिणयाहि जीवा वचंति परलोयं ॥१॥"
Sadasasa90888SSSSS
रिटायटceeeeeeeee.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752