Book Title: Pragnapanopangamsutram Part 01
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 695
________________ | शुक्ललेश्याः, एवं शेषपदेष्वपि विग्रहभावना कार्या, सर्वस्तोकाः, कतिपयेषु पञ्चेन्द्रियतिर्यधु मनुष्येषु च लान्तकादिदेवेषु च तस्याः सद्भावात् , तेभ्यः पनलेश्याः सङ्ख्येयगुणाः, सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियेषु मनुष्येषु सनत्कुमार-2 माहेन्द्रब्रह्मलोककल्पवासिषु च देवेषु पद्मलेश्याभावात् , अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पत्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुक्ललेश्येभ्यः पद्मलेश्याः असङ्घयेयगुणाः प्रामुवन्ति कथं सङ्ख्येयगुणा उक्ताः१, उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पत्रयवासिदेवेभ्योऽसङ्ख्येयगुणानां पञ्चेन्द्रियतिरश्वां शुक्ललेश्या ततः पद्मलेश्याचिन्तायां सनत्कुमारादिदेवप्रक्षेपेऽप्यसङ्ख्येयगुणत्वं न भवति किं तु यदेव तिर्यपञ्चेन्द्रियापेक्षयैव सङ्ख्येयगुणत्वं तदेवास्तीति सङ्ख्येयगुणाः शुक्ललेश्येभ्यः पद्मलेश्याः, तेभ्योऽपि सङ्ख्येयगुणाः तेजोलेश्याः, बादरपृथिव्यपप्रत्येकवन-1 स्पतिकायिकेषु सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु च तेजोलेश्याभावात् , भावना सङ्ख्येयगुणत्वे प्राग्वदत्रापि कर्तव्या, तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामलेश्यानां प्राक्तनेभ्योऽनन्तगुणत्वात् , तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः. तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, क्लिष्टक्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् , कृष्णलेश्येभ्योऽपि सलेश्या विशेषाधिकाः, नीललेश्यादीनामपि तत्र प्रक्षेपात् ॥ तदेवं सामान्यतोऽल्पबहुत्वं चिन्तितं, सम्प्रति नैरयिकेषु तदल्पबहुत्वं चिन्तयन्नाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752