SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ | शुक्ललेश्याः, एवं शेषपदेष्वपि विग्रहभावना कार्या, सर्वस्तोकाः, कतिपयेषु पञ्चेन्द्रियतिर्यधु मनुष्येषु च लान्तकादिदेवेषु च तस्याः सद्भावात् , तेभ्यः पनलेश्याः सङ्ख्येयगुणाः, सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियेषु मनुष्येषु सनत्कुमार-2 माहेन्द्रब्रह्मलोककल्पवासिषु च देवेषु पद्मलेश्याभावात् , अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पत्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुक्ललेश्येभ्यः पद्मलेश्याः असङ्घयेयगुणाः प्रामुवन्ति कथं सङ्ख्येयगुणा उक्ताः१, उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पत्रयवासिदेवेभ्योऽसङ्ख्येयगुणानां पञ्चेन्द्रियतिरश्वां शुक्ललेश्या ततः पद्मलेश्याचिन्तायां सनत्कुमारादिदेवप्रक्षेपेऽप्यसङ्ख्येयगुणत्वं न भवति किं तु यदेव तिर्यपञ्चेन्द्रियापेक्षयैव सङ्ख्येयगुणत्वं तदेवास्तीति सङ्ख्येयगुणाः शुक्ललेश्येभ्यः पद्मलेश्याः, तेभ्योऽपि सङ्ख्येयगुणाः तेजोलेश्याः, बादरपृथिव्यपप्रत्येकवन-1 स्पतिकायिकेषु सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु च तेजोलेश्याभावात् , भावना सङ्ख्येयगुणत्वे प्राग्वदत्रापि कर्तव्या, तेभ्योऽप्यनन्तगुणा अलेश्याः, सिद्धानामलेश्यानां प्राक्तनेभ्योऽनन्तगुणत्वात् , तेभ्योऽपि कापोतलेश्या अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः. तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, क्लिष्टक्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् , कृष्णलेश्येभ्योऽपि सलेश्या विशेषाधिकाः, नीललेश्यादीनामपि तत्र प्रक्षेपात् ॥ तदेवं सामान्यतोऽल्पबहुत्वं चिन्तितं, सम्प्रति नैरयिकेषु तदल्पबहुत्वं चिन्तयन्नाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600240
Book TitlePragnapanopangamsutram Part 01
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages752
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy