________________
प्रज्ञापनाया: मलयवृत्ती.
|१७लेश्यापदे उद्देशः
॥३४४॥
किंपरिमाणाः प्रज्ञप्ताः, भगवानाह-गौतम ! षड़, ता एव नामतः कथयति-कण्हलेसा' इत्यादि, कृष्णद्रव्यात्मिका कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्या एवं नीललेश्येत्यादिपदेष्वपि भावनीयं । 'नेरइयाणं भंते !' इत्यादि, सूत्रमल्पबहुत्ववक्तव्यतायाः प्राक सकलमपि सुगम, नवरं वैमानिकसूत्रे यद्वैमानिकानामेका तेजोलेश्योक्ता तत्रेदं | कारणं-चैमानिक्यो हि देव्यः सौधर्मेशानयोरेव, तत्र च केवला तेजोलेश्येति, सामान्यतः सङ्ग्रहणिगाथा अत्रेमाः-"किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउलेसा मुणेयवा ॥१॥ कप्पे सणंकुमारे माहिदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसा उ ॥२॥ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गम्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥३॥" [कृष्णा नीला कापोती तैजसी च लेश्या भवनव्यन्तराणां । ज्योतिष्कसौधर्मेशानाः तेजोलेश्याका ज्ञातव्याः॥१॥ कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रझलोके च । एतेषु पालेश्या ततः परं शुक्ललेश्यैव ॥२॥ पृथ्व्यब्यनस्पतिवादरप्रत्येकानां चतस्रो लेश्याः । गर्भजतियग्नरेषु षड् लेश्याः शेषाणां तिस्रः॥३] सम्प्रति लेश्यादीनामष्टानामल्पबहुत्वमाह-एएसि णं भंते ! जीवाणं सलेस्साण'मित्यादि, अमीषामष्टानां मध्ये कतरे कतरेभ्योऽल्पाः कतरे कतरेभ्यो बहवः कतरे कतरैः सह तुल्याः, इह प्राकृतत्वात् तृतीयायामपि कतरेहितो निर्देशोऽयं भवतीत्येवं व्याख्यायामदोषः, तथा कतरे कतरेभ्यो विशेषाधिकाः १, एवं गौतमेन प्रश्ने कृते भगवानाह-गौतम ! सर्वस्तोकाः शुक्ललेश्याः, शुक्ला शुक्लद्रव्यजनिता वा वेश्या येषां ते
॥३४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org