________________
प्रज्ञापनायाः मल'यवृत्ती.
॥३४२॥
इहासजिनः प्रथमपृथिव्यामेवोत्पद्यन्ते "अस्सन्नी खलु पढम"मिति [असंज्ञिनः खलु प्रथमां] वचनात् , प्रथमायां १७लेश्याच पृथिव्यां न कृष्णलेश्या यत्र च पञ्चम्यादिषु पृथिवीषु कृष्णलेश्या न तत्रासब्जिन इति, तत्र मायिनो मिथ्या-पदे उद्देशः दृष्टयश्च महावेदना भवन्ति, यतःप्रकर्षपर्यन्तवर्तिनी स्थितिमशुभां ते निवर्तयन्ति, प्रकृष्टायां च तस्यां महती वेदना इतरेषु विपरीतेति । असुरकुमारादयो यावत् व्यन्तरास्तावद्यथा ओधिका उक्तास्तथा वक्तव्याः, नवरं मनुष्याणां क्रियाभिर्विशेषः, तमेव विशेष दर्शयति-तत्थ. णं जे ते' इत्यादि, तत्र-तेषु सम्यग्दृष्टयादिषु मध्ये येते सम्यग्दृष्टयस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-संयता असंयताः संयतासंयताश्च, 'जहा ओहियाणमिति एतेषां यथौधिकानामुक्तं तथा कृष्णलेश्यापदविशेषितानामपि वक्तव्यं, तद्यथा-संयतानां द्वे क्रिये आरम्भिकी मायाप्रत्यया च, कृष्णलेश्या हि प्रमत्तसंयतानां भवति नाप्रमत्तसंयतानां, तेषां तु यथोक्तरूपे एव द्वे क्रिये, संयतासंयतानां तिस्रःआरम्भिकी पारिग्रहिकी मायाप्रत्यया च, असंयतानां चतस्रः-आरम्भिकी पारिग्रहिकी मायाप्रत्यया अप्रत्याख्या-| नक्रिया चेति । ज्योतिष्कवैमानिकास्तु आद्यासु तिसृषु लेश्यासु न पृच्छयन्ते, किमुक्तं भवति ?-तद्विषयं सूत्रं न वक्तव्यं, तासां तेष्वभावात् , यथा च कृष्णलेश्याविषयं सूत्रमुक्तं तथा नीललेश्याविषयमपि वक्तव्यं, नानात्वाभावा
॥३४२॥ द्, एतदेवाह-‘एवं जहा किण्हलेसा विचारिया तहा नीललेस्सा विचारेयवा' नीललेश्याविषयोऽपि सूत्रदण्डक एवमेव, केवलं कृष्ललेश्यापदस्थाने नीललेश्यापदमुच्चरितव्यमिति भावः, 'कापोतलेस्सा' इत्यादि, कापोतलेश्या हि
9200292020900200092909202
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org