________________
सूत्रतो नीललेश्येव नैरयिकेभ्य आरभ्य यावद्यन्तरास्तावद्वक्तव्या, नवरं कापोतलेश्यायां नैरयिका वेदनासूत्रे यथौ - धिकास्तथा वक्तव्याः - 'नेरइया दुबिहा पन्नत्ता - सन्निभूया य असन्निभूया य' इत्येवं वक्तव्या इति भावः, असज्ञिनामपि प्रथमपृथिव्यामुत्पादात् तत्र च कापोतलेश्याभावात्, तेजोलेश्याविषयं सूत्रमाह - 'तेउलेस्सा णं भंते ! असुरकुमारा' इत्यादि, इह नारकतेजोवायुविकलेन्द्रियाणां तेजोलेश्या न संभवति ततः प्रथमत एवासुरकुमारविषयं सूत्रमुक्तं, अत एव तेजोवायुविकलेन्द्रियसूत्रमपि न वक्तव्यं, असुरकुमारा अपि यथा प्रागोघत उक्तास्तथा वक्तव्याः, नवरं वेदनापदे यथा ज्योतिष्कास्तथा वक्तव्याः, 'सन्निभूया य असन्निभूया य' इति न वक्तव्याः, किंतु 'माइमिच्छदिट्टिउववन्नगा अमाइसम्मदिट्टिउवंवन्नगा' इति वक्तव्या इति भावः, असज्ञिनां तेजोलेश्यावत्सूत्पादाभावात् पृथिव्यब्वनस्पतयः तिर्यक्पञ्चेन्द्रिया मनुष्याश्च यथा प्रागोधिकास्तथा वक्तव्याः, नवरं मनुष्याः क्रियाभिर्ये संयतास्ते प्रमत्ताश्चाप्रमत्ताश्च भणनीयाः, उभयेषामपि तेजोलेश्यायाः संभवात्, 'सरागा वीयरागा य नत्थि'त्ति सरागसंजया बीअरागसंजया य इति न वक्तव्या इत्यर्थः, वीतरागाणां तेजोलेश्याया असंभवेन वीतरागपदोपन्यासस्य तेजोलेश्यायाः सरागत्वाव्यभिचारात् सरागपदोपन्यासस्य चायोगात्, 'वाणमंतरा तेउलेसाए जहा असुरकुमारा' इति तेऽपि 'माइमिच्छदिट्टिउववन्नगा अमाइसम्म हिट्टिउववन्नगा य' इत्येवं वक्तव्याः न तु 'सन्निभूया य असन्नि |भूया य' इति, तेष्वपि तेजोलेश्यावत्सु मध्येऽसब्ज्ञिनामुत्पादाभावात् 'एवं पम्हलेसाषि भाणियचा' इति, एवं -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org