________________
परिणामः प्रज्ञप्तः, तद्यथा-जीवपरिणामश्चाजीवपरिणामश्च, तत्र जीवस्य परिणामो जीवपरिणामः, स प्रायोगिकः, अजीवस्य परिणामोऽजीवपरिणामः, स वैश्रसिकः, चशब्दो खगतानेकभेदसूचकौ, तांश्च भेदान् अग्रे सूत्रकृदेव वक्ष्यति, तथा चाह-'जीवपरिणामे णं भंते !' इत्यादि, दशविधो जीवपरिणामः, तद्यथा-गतिपरिणाम इत्यादि, तत्र गम्यते नैरयिकादिगतिकर्मोदयवशादवाप्यते इति गतिः-नैरयिकत्वादिपर्यायपरिणतिः गतिरेव परिणामो गतिपरिणामः १, तथा इन्दनादिन्द्रः-आत्मा ज्ञानलक्षणपरमैश्वर्ययोगात् तस्येदं, 'इन्द्रिय'मिति निपातनादिन्द्रशब्दादियप्रत्ययः, इन्द्रियाण्येव परिणाम इन्द्रियपरिणामः २, तथा कर्षन्ति-हिंसन्ति परस्परं प्राणिनोऽस्मिन्निति कपः-संसारस्तमयन्ते-अन्तर्भूतण्यर्थत्वात् गमयन्ति प्रापयन्ति ये ते कषायाः 'कर्मणोऽणि' त्यण् प्रत्ययः, कषाया एव परिणामः कषायपरिणामः ३, लेश्यादिशब्दार्थो वक्ष्यमाणः, लेश्या एव परिणामो लेश्यापरिणामः ४ योग एव परिणामो योगपरिणामः ५ उपयोग एव परिणाम उपयोगपरिणामः ६ एवं ज्ञानपरिणाम ७ दर्शनपरिणाम ८चारित्रपरिणाम ९ वेदपरिणामेष्वपि भावनीयं । सम्प्रत्यमीषां पदानामित्थं क्रमेणोपन्यासे कारणमभिधीयते-तत्र सर्वे भावास्तत्तद्भावाश्रिता गतिपरिणामं विना न प्रादुष्ष्यन्ति ततः प्रथमं गतिपरिणामः १ गतिपरिणामे च सत्यवश्यमिन्द्रियपरिणाम इति तदनन्तरमिन्द्रियपरिणाम उक्तः २ इन्द्रियपरिणामे च सति इष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरुपजायते इति तदनन्तरं कषायपरिणामः३ कषायपरिणामश्चावश्यं लेश्यापरिणामाविनाभावी, तथाहि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org