Book Title: Patanjalina Yoga sutro
Author(s): Gautam Patel, Ramkrushna Tuljaram Vyas
Publisher: Sanskrit Sahitya Academy Gandhinagar
View full book text
________________
પા. ૩ સૂ. ૧૫] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ૩૧૧
भाष्य
एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागतभावाद्वर्तमानभावक्रमः । तथा पिण्डस्य वर्तमानभावादतीतभावक्रमः । नातीतस्यास्ति क्रमः । कस्मात् ? पूर्वपरतायां सत्यां समनन्तरत्वम्, सा तु नास्त्यतीतस्य । तस्माद् द्वयोरेव लक्षणयोः क्रमः । तथावस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति ।
-
त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारस्तद्वारेण स एवाभिधीयते धर्मस्तदायमेकत्वेनैव क्रमः प्रत्यवभासते ।
चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टाः । वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावा:
निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् ।
चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥
એક ધર્મીનું એક પરિણામ થવું જોઈએ એવા પ્રસંગને ટાળતાં કહેવું જરૂરી બને છે કે ક્રમનો ભેદ પરિણામોની વિવિધતાનું કારણ છે. જેમકે यूएर्श, पिंड, घडो, उपास (हीरो), हुए। भने माटी से हम छे. भेना पछी જે ધર્મ પ્રગટે એ એનો ક્રમ છે. પિંડ મટીને ઘડો બને છે, એ ધર્મ પરિણામ ક્રમ છે. ઘડો ભવિષ્યમાંથી વર્તમાનમાં આવે અને પિંડ વર્તમાનમાંથી ભૂતકાળમાં જાય એ લક્ષણપરિણામક્રમ છે. ભૂતકાળમાં ક્રમ નથી. કેમ ? કારણ કે પૂર્વાપરતા હોય તો જ એક પછી બીજો ધર્મ પ્રગટે, પણ અતીતમાં એ નથી. તેથી ક્રમ બે કાળોમાં જ હોય છે. ઘડો શરૂમાં નવો અને અંતમાં