Book Title: Patanjalina Yoga sutro
Author(s): Gautam Patel, Ramkrushna Tuljaram Vyas
Publisher: Sanskrit Sahitya Academy Gandhinagar

View full book text
Previous | Next

Page 455
________________ પા. ૪ સૂ. ૧૦] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૪૨૧ न चागच्छति पटे तदाश्रयं चित्रं गच्छति । तथा च न संसारः स्यादित्यत आहतथा चान्तराभावः संसारश्च युक्त इति । तथा च शरीरपरिमाणत्वे देहान्तरप्राप्तये पूर्वदेहत्यागो देहान्तरप्राप्तिश्चान्तरास्यातिवाहिकशरीरसंयोगाद् भवतः । तेन खल्वयं देहान्तरे सञ्चरेत् ॥ तथा च पुराणम् अङ्गष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् । (महाभा० वन० ३।२९७।१७) सोऽयमन्तराभावः । अत एव संसारश्च युक्त इति । तदेतदमृष्यमाणः स्वमतमाह-वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्यः स्वयंभूः प्रतिपेदे । इदमत्राकूतम्-यद्यनाश्रयं चित्तं न देहान्तरसञ्चारि कथमेतदातिवाहिकमाश्रयते । तत्रापि देहान्तरकल्पनायामनवस्था । न चास्य देहान्निष्कर्ष आतिवाहिकस्य सम्भवति । निष्कृष्टस्य चेतसस्तत्सम्बन्धात् । अस्तु तहि सूक्ष्मशरीरमेवा सर्गादा च प्रलयान्नियतं चित्तानामधिष्ठानं षाटकौशिकशरीरमध्यवर्ति । तेन हि चित्तमासत्यलोकादा चावीचेस्तत्र तत्र शरीरे सञ्चरति । निष्कर्षश्चास्योपपन्नः षाट्कौशिकात्कायात् । तत्र हि तदन्तराभावस्तस्य नियतत्वात् । न चास्यापि सद्भावे प्रमाणमस्ति । न खल्वेतदध्यक्षगोचरः । न च संसारोऽस्यानुमानम्, आचार्यमतेनाप्युपपत्तेः। आगमस्तु पुरुषस्य निष्कर्षमाह । न च चित्तं वा सूक्ष्मशरीरं वा पुरुषः, किं तु चितिशक्तिरप्रतिसंक्रमा । न चास्या निष्कर्षः संभवतीत्यौपचारिको व्याख्येयः । तथा च चित्तेश्चित्तस्य च तत्र तत्र वृत्त्यभाव एक निष्कर्षार्थः । यच्च स्मृतीतिहासपुराणेषु मरणानन्तरं प्रेतशरीरप्राप्तिस्तद्विमोकश्च सपिण्डीकरणादिभिरित्युक्तं तदनुजानीमः । आतिवाहिकत्वं तस्य न मृष्यामहे । न चात्रास्ति कश्चिदागमः । लब्धशरीर एव च यमपुरुषैरपि पाशबद्धो नीयते । न त्वातिवाहिकशरीरः । तस्मादाहङ्कारिकत्वाच्चेतसोऽहङ्कारस्य च गगनमण्डलवत्रैलोक्यव्यापित्वाद्विभुत्वं मनसः । एवं चेदस्य वृत्तिरपि विभ्वीतिसर्वज्ञतापत्तिरित्यत उक्तं वृत्तिरेवास्येति । स्यादेतत्-चित्तमात्राधीनाया वृत्तेः सङ्कोचविकासौ कुतः कादाचित्कावित्यत आह- तच्च चित्तं धर्मादिनिमित्तापेक्षम् । वृत्तौ निमित्तं विभजते-निमित्तं चेति । आदिग्रहणेनेन्द्रियधनादयो गृह्यन्ते । श्रद्धादीति । अत्रापि वीर्यस्मृत्यादयो गृह्यन्ते । आन्तरत्वे संमतिमाचार्याणामाहतथा चोक्तम् । विहारो व्यापारः । प्रकृष्टं शुक्लम् । तयोर्बाह्याभ्यन्तरयोमध्ये । ज्ञानवैराग्ये तज्जनिती धर्मों केन बाह्यसाध्येन धर्मेणातिशय्येते अभिभूयेते । ज्ञानवैराग्यजावेव धर्मों तमभिभवतः, बीजभावादपनयत इत्यर्थः । अत्रैव सुप्रसिद्धमुदाहरणमाह-दण्डकारण्यमिति ॥१०॥

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512