Book Title: Patanjalina Yoga sutro
Author(s): Gautam Patel, Ramkrushna Tuljaram Vyas
Publisher: Sanskrit Sahitya Academy Gandhinagar

View full book text
Previous | Next

Page 467
________________ પા. ૪ સૂ. ૧૪] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ४33 ततस्तन्मात्र भूत भौतिकानां प्रत्येकं तत्त्वमेकत्वम् । ग्रहणात्मकानां सत्त्वप्रधानतया प्रकाशात्मनामहंकारावान्तरकार्याणां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियम् । तेषामेव गुणानां तमः प्रधानतया जडत्वेन ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषयः । शब्द इति शब्दतन्मात्रम् । विषय इति जडत्वमाह, न तु तन्मात्रस्य श्रोत्रविषयत्वसंभव इति । शेष सुगमम् । अथ विज्ञानवादिनं वैनाशिकमुत्थापयति- नास्त्यर्थो विज्ञानविसहचर इति । यदि हि भूतभौतिकानि विज्ञानमात्राद्भिन्नानि भवेयुस्ततस्तदुत्पत्तिकारणमीदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत्कथं प्रधानकल्पनम् ? कथं च गृहणानामिन्द्रियाणामहंकारविकाराणां कल्पनेति ? तथा हि-जडस्यार्थस्य स्वयमप्रकाशत्वान्नास्त्यर्थो विज्ञानविसहचरः । साहचर्यं संबंध: । तदभाव विसहचरत्वम् । विरभावार्थ: । विज्ञानासंबन्धो नास्तीति व्यवहारयोग्य इत्यर्थः । अस्ति तु ज्ञानमर्थविसहचरम् । तस्य स्वयंप्रकाशत्वेन स्वगोचरास्तिताव्यवहारे कर्तव्ये जडमर्थं प्रत्यपेक्षाभावात् । तदनेन वेद्यत्वसहोपलम्भनियमौ सूचितौ विज्ञानवादिना । तौ चैवं प्रयोगमारोहत: - तद्वेद्यते येन वेदनेन तत्ततो न भिद्यते । यथा ज्ञानस्यात्मा । वैद्यन्ते च भूतभौतिकानीति विरुद्धव्याप्तोपलब्धिर्निषेध्यभेदविरुद्धेन व्याप्तं वेद्यत्वं दृश्यमानं स्वव्यापकमभेदमुपस्थापयत्तद्विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद्येन नियतसहोपलम्भं तत्ततो न भिद्यते । यथैकस्माच्चन्द्राद् द्वितीयश्चन्द्रः । नियतसहोपलम्बश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः । निषेध्यभेदव्यापकानियमविरुद्धो नियमो ऽनियमं निवर्तयंस्तद्व्याप्तं भेदं प्रतिक्षिपतीति । स्यादेतत्- अर्थश्चेन्न भिन्नो ज्ञानात्कथं भिन्नवत्प्रतिभासत इत्यत आह- कल्पितमिति । यथाहुर्वैनाशिकाः सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाये ॥ - इति । कल्पितत्वं विशदयति-ज्ञानपरिकल्पनेति । निराकरोति-त इति । ते कथं श्रद्धेयवचनाः स्युरिति संबन्धः । प्रतिज्ञानमुपस्थितं प्रत्युपस्थितम् । कथम्तथेति । यथा यथावभासत इदंकारास्पदत्वेन तथा तथा स्वयमुपस्थितं न तु कल्पनोपकल्पितं विज्ञानविषयतापन्नम् । स्वमाहात्म्येनेति विज्ञानकारणत्वमर्थस्य दर्शयति । यस्मादर्थेन स्वकीयया ग्राह्यशक्त्या विज्ञानमजनि तस्मादर्थस्य ग्राहकम् । तदेवं भूतं वस्तु कथमप्रमाणात्मकेन विकल्पविज्ञानबलेन विकल्पस्याप्रामाणिकत्वात्तद्बलस्यापि तदात्मनोऽप्रमाणात्मकत्वम् । तेन वस्तुस्वरूपमुत्सृज्योपप्लुतं कृत्वा । उपगृह्येति क्वाचित्कः पाठः । तत्रापि स एवार्थः । तदेवापलपन्तः

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512