________________
પા. ૪ સૂ. ૧૪] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ४33
ततस्तन्मात्र भूत भौतिकानां प्रत्येकं तत्त्वमेकत्वम् । ग्रहणात्मकानां सत्त्वप्रधानतया प्रकाशात्मनामहंकारावान्तरकार्याणां करणभावेनैकः परिणामः श्रोत्रमिन्द्रियम् । तेषामेव गुणानां तमः प्रधानतया जडत्वेन ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषयः । शब्द इति शब्दतन्मात्रम् । विषय इति जडत्वमाह, न तु तन्मात्रस्य श्रोत्रविषयत्वसंभव इति । शेष सुगमम् ।
अथ विज्ञानवादिनं वैनाशिकमुत्थापयति- नास्त्यर्थो विज्ञानविसहचर इति । यदि हि भूतभौतिकानि विज्ञानमात्राद्भिन्नानि भवेयुस्ततस्तदुत्पत्तिकारणमीदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत्कथं प्रधानकल्पनम् ? कथं च गृहणानामिन्द्रियाणामहंकारविकाराणां कल्पनेति ? तथा हि-जडस्यार्थस्य स्वयमप्रकाशत्वान्नास्त्यर्थो विज्ञानविसहचरः । साहचर्यं संबंध: । तदभाव विसहचरत्वम् । विरभावार्थ: । विज्ञानासंबन्धो नास्तीति व्यवहारयोग्य इत्यर्थः । अस्ति तु ज्ञानमर्थविसहचरम् । तस्य स्वयंप्रकाशत्वेन स्वगोचरास्तिताव्यवहारे कर्तव्ये जडमर्थं प्रत्यपेक्षाभावात् । तदनेन वेद्यत्वसहोपलम्भनियमौ सूचितौ विज्ञानवादिना । तौ चैवं प्रयोगमारोहत: - तद्वेद्यते येन वेदनेन तत्ततो न भिद्यते । यथा ज्ञानस्यात्मा । वैद्यन्ते च भूतभौतिकानीति विरुद्धव्याप्तोपलब्धिर्निषेध्यभेदविरुद्धेन व्याप्तं वेद्यत्वं दृश्यमानं स्वव्यापकमभेदमुपस्थापयत्तद्विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद्येन नियतसहोपलम्भं तत्ततो न भिद्यते । यथैकस्माच्चन्द्राद् द्वितीयश्चन्द्रः । नियतसहोपलम्बश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः । निषेध्यभेदव्यापकानियमविरुद्धो नियमो ऽनियमं निवर्तयंस्तद्व्याप्तं भेदं प्रतिक्षिपतीति । स्यादेतत्- अर्थश्चेन्न भिन्नो ज्ञानात्कथं भिन्नवत्प्रतिभासत इत्यत आह- कल्पितमिति । यथाहुर्वैनाशिकाः सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाये ॥
-
इति । कल्पितत्वं विशदयति-ज्ञानपरिकल्पनेति । निराकरोति-त इति । ते कथं श्रद्धेयवचनाः स्युरिति संबन्धः । प्रतिज्ञानमुपस्थितं प्रत्युपस्थितम् । कथम्तथेति । यथा यथावभासत इदंकारास्पदत्वेन तथा तथा स्वयमुपस्थितं न तु कल्पनोपकल्पितं विज्ञानविषयतापन्नम् । स्वमाहात्म्येनेति विज्ञानकारणत्वमर्थस्य दर्शयति । यस्मादर्थेन स्वकीयया ग्राह्यशक्त्या विज्ञानमजनि तस्मादर्थस्य ग्राहकम् । तदेवं भूतं वस्तु कथमप्रमाणात्मकेन विकल्पविज्ञानबलेन विकल्पस्याप्रामाणिकत्वात्तद्बलस्यापि तदात्मनोऽप्रमाणात्मकत्वम् । तेन वस्तुस्वरूपमुत्सृज्योपप्लुतं कृत्वा । उपगृह्येति क्वाचित्कः पाठः । तत्रापि स एवार्थः । तदेवापलपन्तः