Book Title: Patanjalina Yoga sutro
Author(s): Gautam Patel, Ramkrushna Tuljaram Vyas
Publisher: Sanskrit Sahitya Academy Gandhinagar

View full book text
Previous | Next

Page 454
________________ ४२०] પતંજલિનાં યોગસૂત્રો [. ४ . १० प्रमाणं भवितुमर्हति । पद्यादिसंकोचविकासवत्स्वाभाविकत्वेन तदुपपत्तेरित्यत आहतासामनादित्वं चाशिपो नित्यत्वात् । तासां वासनानामनादित्वं च न केवलमानन्तर्यमिति चार्थः । आशिषो नित्यत्वात् । आत्माशिषो वासनानामनादित्वे नित्यत्वाव्यभिचारादिति। ननु स्वाभाविकत्वेनाप्युपपत्तेरसिद्धमाशिषो नित्यत्वमित्यत आह-येयमिति । नास्तिकः पृच्छति-कस्मात् । उत्तरम्-जातमात्रस्य जन्तोरिति । अत एवैतस्मिञ्जन्मन्यननुभूतमरणधर्मकस्य मरणमेव धर्मः सोऽननुभूतो येन स तथोक्तस्तस्य मातुरङ्कात्प्रस्खलतः कम्पमानस्य माङ्गल्यचक्रादिलाच्छितं तदुरःसूत्रमतिगाढं पाणिग्राहमवलम्बमानस्य बालकस्य कम्पभेदानुमिता द्वेषानुषक्ते दुःखे या स्मृतिस्तन्निमित्तो मरणत्रासः कथं भवेदिति । ननूक्तं स्वभावादित्यत आह- न च स्वाभाविकं वस्तु निमित्तमुपादत्ते गृह्मति स्वोत्पत्तौ । एतदुक्तं भवति-बालकस्येदृशो दृश्यमानः कम्पो भयनिबन्धन ईदृशकम्पत्वादस्मदादिकम्पवत् । बालकस्य भयं द्वेषदुःखस्मृतिनिमित्तं भयत्वादस्मदादिभयवत् । आगामिप्रत्यवायोत्प्रेक्षालक्षणं च भयं न दुःखस्मृतिमात्राद्भवति, अपि तु यतो बिभेति तस्य प्रत्यवायहेतुभावमनुमाय संप्रत्यपि प्रत्यवायं भयं च विदध्यादिति । तस्माद्यज्जातीयादनुभूतचराद् द्वेषानुषक्तं दुःखमुपपादितं तस्य स्मरणात् तज्जातीयस्यानुभूयमानस्य तदुःखहेतुत्वमनुमाय ततो बिभेति । न च बालकेनास्मिञ्जन्मनि स्खलनस्यान्यत्र दुःखहेतुत्वमवगतम् । न च तादृशं दुःखमुपलब्धम् । तस्मात्प्राग्भवीयोऽनुभवः परिशिष्यते । तच्चैतदेवं प्रयोगमारोहति- जातमात्रस्य बालस्य स्मृतिः पूर्वानुभवनिबन्धना स्मृतित्वादस्मदादिस्मृतिवदिति । न च पद्मसंकोचविकासावपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरमपेक्षते । वढेरौष्ण्यं प्रत्यपि कारणान्तरापेक्षाप्रसङ्गात् । तस्मादागन्तुकमरुणकरसंपर्कमात्रमेव कमलिनीविकासकारणम् । संकोचकारणं च संस्कारः स्थितिस्थापक इति । एवं स्मिताद्यनुमितहर्षादयोऽपि प्राचि भवे हेतवो वेदितव्याः । तदास्तां तावत् । प्रकृतमुपसंहरति- तस्मादिति । निमित्तं लब्धविपाककालं कर्म । प्रतिलम्भोऽभिव्यक्तिः । ___ प्रसङ्गतश्चित्तपरिमाणविप्रतिपत्तिं निराचिकीर्षुर्विप्रतिपत्तिमाह-घटप्रासादेति । देहप्रदेशवर्तिकार्यदर्शनाद्देहादहिः सद्भावे चित्तस्य न प्रमाणमस्ति । न चैतदणुपरिमाणम् । दीर्घशष्कुलीभक्षणादावपर्यायेण ज्ञानपञ्चकानुत्पादप्रसङ्गात् । न चाननुभूयमानक्रमकल्पनायां प्रमाणमस्ति । न चैकमणु मनो नानादेशैरिन्द्रियैरपर्यायेण संबन्धमर्हति । तत्पारिशेष्यात्कायपरिमाणं चित्तं घटप्रासादवर्तिप्रदीपवत् । संकोचविकासौ पुत्तिकाहस्तिदेहयोरस्योत्पत्स्येते । शरीरपरिमाणमेवाकारः परिमाणं यस्येत्यरे प्रतिपन्नाः । नन्वेवं कथमस्य क्षेत्रबीजसंयोगः । न खल्वेतदनाश्रयं मृतशरीरान्मातृपितृदेहवर्तिनी लोहितरेतसी प्राप्नोति, परतन्त्रत्वात् । न हि स्थाण्वादिष्वगच्छत्सु तच्छाया गच्छति ।

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512