________________
४२०]
પતંજલિનાં યોગસૂત્રો
[. ४ . १०
प्रमाणं भवितुमर्हति । पद्यादिसंकोचविकासवत्स्वाभाविकत्वेन तदुपपत्तेरित्यत आहतासामनादित्वं चाशिपो नित्यत्वात् । तासां वासनानामनादित्वं च न केवलमानन्तर्यमिति चार्थः । आशिषो नित्यत्वात् । आत्माशिषो वासनानामनादित्वे नित्यत्वाव्यभिचारादिति। ननु स्वाभाविकत्वेनाप्युपपत्तेरसिद्धमाशिषो नित्यत्वमित्यत आह-येयमिति । नास्तिकः पृच्छति-कस्मात् । उत्तरम्-जातमात्रस्य जन्तोरिति । अत एवैतस्मिञ्जन्मन्यननुभूतमरणधर्मकस्य मरणमेव धर्मः सोऽननुभूतो येन स तथोक्तस्तस्य मातुरङ्कात्प्रस्खलतः कम्पमानस्य माङ्गल्यचक्रादिलाच्छितं तदुरःसूत्रमतिगाढं पाणिग्राहमवलम्बमानस्य बालकस्य कम्पभेदानुमिता द्वेषानुषक्ते दुःखे या स्मृतिस्तन्निमित्तो मरणत्रासः कथं भवेदिति । ननूक्तं स्वभावादित्यत आह- न च स्वाभाविकं वस्तु निमित्तमुपादत्ते गृह्मति स्वोत्पत्तौ । एतदुक्तं भवति-बालकस्येदृशो दृश्यमानः कम्पो भयनिबन्धन ईदृशकम्पत्वादस्मदादिकम्पवत् । बालकस्य भयं द्वेषदुःखस्मृतिनिमित्तं भयत्वादस्मदादिभयवत् । आगामिप्रत्यवायोत्प्रेक्षालक्षणं च भयं न दुःखस्मृतिमात्राद्भवति, अपि तु यतो बिभेति तस्य प्रत्यवायहेतुभावमनुमाय संप्रत्यपि प्रत्यवायं भयं च विदध्यादिति । तस्माद्यज्जातीयादनुभूतचराद् द्वेषानुषक्तं दुःखमुपपादितं तस्य स्मरणात् तज्जातीयस्यानुभूयमानस्य तदुःखहेतुत्वमनुमाय ततो बिभेति । न च बालकेनास्मिञ्जन्मनि स्खलनस्यान्यत्र दुःखहेतुत्वमवगतम् । न च तादृशं दुःखमुपलब्धम् । तस्मात्प्राग्भवीयोऽनुभवः परिशिष्यते । तच्चैतदेवं प्रयोगमारोहति- जातमात्रस्य बालस्य स्मृतिः पूर्वानुभवनिबन्धना स्मृतित्वादस्मदादिस्मृतिवदिति । न च पद्मसंकोचविकासावपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरमपेक्षते । वढेरौष्ण्यं प्रत्यपि कारणान्तरापेक्षाप्रसङ्गात् । तस्मादागन्तुकमरुणकरसंपर्कमात्रमेव कमलिनीविकासकारणम् । संकोचकारणं च संस्कारः स्थितिस्थापक इति । एवं स्मिताद्यनुमितहर्षादयोऽपि प्राचि भवे हेतवो वेदितव्याः । तदास्तां तावत् । प्रकृतमुपसंहरति- तस्मादिति । निमित्तं लब्धविपाककालं कर्म । प्रतिलम्भोऽभिव्यक्तिः ।
___ प्रसङ्गतश्चित्तपरिमाणविप्रतिपत्तिं निराचिकीर्षुर्विप्रतिपत्तिमाह-घटप्रासादेति । देहप्रदेशवर्तिकार्यदर्शनाद्देहादहिः सद्भावे चित्तस्य न प्रमाणमस्ति । न चैतदणुपरिमाणम् । दीर्घशष्कुलीभक्षणादावपर्यायेण ज्ञानपञ्चकानुत्पादप्रसङ्गात् । न चाननुभूयमानक्रमकल्पनायां प्रमाणमस्ति । न चैकमणु मनो नानादेशैरिन्द्रियैरपर्यायेण संबन्धमर्हति । तत्पारिशेष्यात्कायपरिमाणं चित्तं घटप्रासादवर्तिप्रदीपवत् । संकोचविकासौ पुत्तिकाहस्तिदेहयोरस्योत्पत्स्येते । शरीरपरिमाणमेवाकारः परिमाणं यस्येत्यरे प्रतिपन्नाः । नन्वेवं कथमस्य क्षेत्रबीजसंयोगः । न खल्वेतदनाश्रयं मृतशरीरान्मातृपितृदेहवर्तिनी लोहितरेतसी प्राप्नोति, परतन्त्रत्वात् । न हि स्थाण्वादिष्वगच्छत्सु तच्छाया गच्छति ।