________________
પા. ૪ સૂ. ૧૦] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૪૨૧
न चागच्छति पटे तदाश्रयं चित्रं गच्छति । तथा च न संसारः स्यादित्यत आहतथा चान्तराभावः संसारश्च युक्त इति । तथा च शरीरपरिमाणत्वे देहान्तरप्राप्तये पूर्वदेहत्यागो देहान्तरप्राप्तिश्चान्तरास्यातिवाहिकशरीरसंयोगाद् भवतः । तेन खल्वयं देहान्तरे सञ्चरेत् ॥ तथा च पुराणम्
अङ्गष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् । (महाभा० वन० ३।२९७।१७) सोऽयमन्तराभावः । अत एव संसारश्च युक्त इति ।
तदेतदमृष्यमाणः स्वमतमाह-वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्यः स्वयंभूः प्रतिपेदे । इदमत्राकूतम्-यद्यनाश्रयं चित्तं न देहान्तरसञ्चारि कथमेतदातिवाहिकमाश्रयते । तत्रापि देहान्तरकल्पनायामनवस्था । न चास्य देहान्निष्कर्ष आतिवाहिकस्य सम्भवति । निष्कृष्टस्य चेतसस्तत्सम्बन्धात् । अस्तु तहि सूक्ष्मशरीरमेवा सर्गादा च प्रलयान्नियतं चित्तानामधिष्ठानं षाटकौशिकशरीरमध्यवर्ति । तेन हि चित्तमासत्यलोकादा चावीचेस्तत्र तत्र शरीरे सञ्चरति । निष्कर्षश्चास्योपपन्नः षाट्कौशिकात्कायात् । तत्र हि तदन्तराभावस्तस्य नियतत्वात् । न चास्यापि सद्भावे प्रमाणमस्ति । न खल्वेतदध्यक्षगोचरः । न च संसारोऽस्यानुमानम्, आचार्यमतेनाप्युपपत्तेः। आगमस्तु पुरुषस्य निष्कर्षमाह । न च चित्तं वा सूक्ष्मशरीरं वा पुरुषः, किं तु चितिशक्तिरप्रतिसंक्रमा । न चास्या निष्कर्षः संभवतीत्यौपचारिको व्याख्येयः । तथा च चित्तेश्चित्तस्य च तत्र तत्र वृत्त्यभाव एक निष्कर्षार्थः । यच्च स्मृतीतिहासपुराणेषु मरणानन्तरं प्रेतशरीरप्राप्तिस्तद्विमोकश्च सपिण्डीकरणादिभिरित्युक्तं तदनुजानीमः । आतिवाहिकत्वं तस्य न मृष्यामहे । न चात्रास्ति कश्चिदागमः । लब्धशरीर एव च यमपुरुषैरपि पाशबद्धो नीयते । न त्वातिवाहिकशरीरः । तस्मादाहङ्कारिकत्वाच्चेतसोऽहङ्कारस्य च गगनमण्डलवत्रैलोक्यव्यापित्वाद्विभुत्वं मनसः । एवं चेदस्य वृत्तिरपि विभ्वीतिसर्वज्ञतापत्तिरित्यत उक्तं वृत्तिरेवास्येति ।
स्यादेतत्-चित्तमात्राधीनाया वृत्तेः सङ्कोचविकासौ कुतः कादाचित्कावित्यत आह- तच्च चित्तं धर्मादिनिमित्तापेक्षम् । वृत्तौ निमित्तं विभजते-निमित्तं चेति । आदिग्रहणेनेन्द्रियधनादयो गृह्यन्ते ।
श्रद्धादीति । अत्रापि वीर्यस्मृत्यादयो गृह्यन्ते । आन्तरत्वे संमतिमाचार्याणामाहतथा चोक्तम् । विहारो व्यापारः । प्रकृष्टं शुक्लम् । तयोर्बाह्याभ्यन्तरयोमध्ये । ज्ञानवैराग्ये तज्जनिती धर्मों केन बाह्यसाध्येन धर्मेणातिशय्येते अभिभूयेते । ज्ञानवैराग्यजावेव धर्मों तमभिभवतः, बीजभावादपनयत इत्यर्थः । अत्रैव सुप्रसिद्धमुदाहरणमाह-दण्डकारण्यमिति ॥१०॥