Book Title: Patanjalina Yoga sutro
Author(s): Gautam Patel, Ramkrushna Tuljaram Vyas
Publisher: Sanskrit Sahitya Academy Gandhinagar

View full book text
Previous | Next

Page 431
________________ પા. ૩ સૂ. ૫૩] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૩૯૭ ___ क्षणतत्क्रमसंयमाज्जातं ज्ञानं कथमामलकं तुल्यजातिलक्षणदेशादामलकान्तराद्विवेचयतीति पृच्छति-कथमिति । उत्तरमाह-पूर्वामलकसहक्षणो देशः पूर्वामलकेनैकक्षणो देशः । तेन सह निरन्तरपरिणाम इति यावत् । उत्तरामलकसहक्षणाद्देशादुत्तरामलकनिरन्तरपरिणामाद्भिन्नः । भवतु देशयोर्भेदः किमायातमामलकभेदस्येत्यत आह- ते चामलके स्वदेशक्षणानुभवभिन्ने । स्वदेशसहितो यः क्षणस्तस्यामलकस्य कालकला स्वदेशेन सहौत्तराधर्यरूपपरिणामलक्षिता सा स्वदेशक्षणः । तस्यानुभवः प्राप्तिर्वा ज्ञानं वा । तेन भिन्ने आमलके । ययोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्यपरिणामक्षण आसीत्तयोर्देशान्तरौत्तराधर्यपरिणामक्षणविशिष्टत्वमनुभवन्संयमी ते भिन्ने एव प्रत्येति । संप्रति तदेशपरिणामेऽपि पूर्व भिन्नदेशपरिणामाद्विशिष्टस्य चैतद्देशपरिणामलक्षणस्य संयमतः साक्षात्करणात् । तदिदमुक्तम्-अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । अनेनैव निदर्शनेन लौकिकपरीक्षकसंवादादिना परमाणोरपीदृशस्य भेदो योगीश्वरबुद्धिगम्यः श्रद्धेय इत्याहएतेनेति । __ अपरे तु वर्णयन्ति । वर्णनमुदाहरति-य इति । वैशेषिका हि नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इत्याहुः । तथा हि-योगिनो मुक्तांस्तुल्यजातिदेशकालान्व्यवधिरहितान्परस्परतो भेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते । तस्मादस्ति कश्चिदन्त्यो विशेष इति । तथा च स एव नित्यानां परमाण्वादीनां द्रव्याणां भेदक इति । तदेतद्दूषयति-तत्रापीति । जातिदेशलक्षणान्युदाहृतानि । मूर्तिः संस्थानम् । यथैकं विशुद्धावयवसंस्थानोपपन्नमपसार्य तस्मिन्नेव देशेऽन्यव्यग्रस्य द्रष्टः कुत्सितावयवसंनिवेश उपावर्त्यते तदा तस्य संस्थानभेदेन भेदप्रत्ययः । शरीरं वा मूर्तिः । तत्संबन्धेनात्मनां संसारिणां मुक्तात्मनां वा भूतचरेण यादृशतादृशेन भेद इति सर्वत्र भेदप्रत्ययस्यान्यथासिद्धेर्नान्त्यविशेषकल्पना । व्यवधिर्भेदकारणम् । यथा कुशपुष्करद्वीपयोर्देशस्वरूपयोरिति । यतो जातिदेशादिभेदा लोकबुद्धिगम्या अत उक्तम्- क्षणभेदस्तु योगिबुद्धिगम्य एवेति । एवकारः क्षणभेदमवधारयति न योगिबुद्धिगम्यत्वम् । तेन भूतचरेण देहसंबन्धेन मुक्तात्मनामपि भेदो योगिबुद्धिगम्य उन्नेय इति । यस्य तूक्ता भेदहेतवो न सन्ति तस्य प्रधानस्य भेदो नास्तीत्याचार्यो मेने । यस्मादूचे "कृतार्थं प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वात्" (२।२२) इति । तदाह-मूर्तिव्यवधीति । उक्तभेदहेतूपलक्षणमेतत् । जगन्मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्तीत्यर्थः ॥५३॥ જો કે વિવેકજન્ય જ્ઞાન નિઃશેષ ભાવવિષયક છે, એ વાત આગળ કહેવાશે, છતાં એ અત્યંત સૂક્ષ્મ હોવાથી, પહેલાં એ જ્ઞાનનો ખાસ વિષય “જાતિલક્ષણ...”

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512