________________
પા. ૩ સૂ. ૫૩] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [૩૯૭
___ क्षणतत्क्रमसंयमाज्जातं ज्ञानं कथमामलकं तुल्यजातिलक्षणदेशादामलकान्तराद्विवेचयतीति पृच्छति-कथमिति । उत्तरमाह-पूर्वामलकसहक्षणो देशः पूर्वामलकेनैकक्षणो देशः । तेन सह निरन्तरपरिणाम इति यावत् । उत्तरामलकसहक्षणाद्देशादुत्तरामलकनिरन्तरपरिणामाद्भिन्नः । भवतु देशयोर्भेदः किमायातमामलकभेदस्येत्यत आह- ते चामलके स्वदेशक्षणानुभवभिन्ने । स्वदेशसहितो यः क्षणस्तस्यामलकस्य कालकला स्वदेशेन सहौत्तराधर्यरूपपरिणामलक्षिता सा स्वदेशक्षणः । तस्यानुभवः प्राप्तिर्वा ज्ञानं वा । तेन भिन्ने आमलके । ययोरामलकयोः पूर्वोत्तराभ्यां देशाभ्यामौत्तराधर्यपरिणामक्षण आसीत्तयोर्देशान्तरौत्तराधर्यपरिणामक्षणविशिष्टत्वमनुभवन्संयमी ते भिन्ने एव प्रत्येति । संप्रति तदेशपरिणामेऽपि पूर्व भिन्नदेशपरिणामाद्विशिष्टस्य चैतद्देशपरिणामलक्षणस्य संयमतः साक्षात्करणात् । तदिदमुक्तम्-अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । अनेनैव निदर्शनेन लौकिकपरीक्षकसंवादादिना परमाणोरपीदृशस्य भेदो योगीश्वरबुद्धिगम्यः श्रद्धेय इत्याहएतेनेति ।
__ अपरे तु वर्णयन्ति । वर्णनमुदाहरति-य इति । वैशेषिका हि नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इत्याहुः । तथा हि-योगिनो मुक्तांस्तुल्यजातिदेशकालान्व्यवधिरहितान्परस्परतो भेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते । तस्मादस्ति कश्चिदन्त्यो विशेष इति । तथा च स एव नित्यानां परमाण्वादीनां द्रव्याणां भेदक इति । तदेतद्दूषयति-तत्रापीति । जातिदेशलक्षणान्युदाहृतानि । मूर्तिः संस्थानम् । यथैकं विशुद्धावयवसंस्थानोपपन्नमपसार्य तस्मिन्नेव देशेऽन्यव्यग्रस्य द्रष्टः कुत्सितावयवसंनिवेश उपावर्त्यते तदा तस्य संस्थानभेदेन भेदप्रत्ययः । शरीरं वा मूर्तिः । तत्संबन्धेनात्मनां संसारिणां मुक्तात्मनां वा भूतचरेण यादृशतादृशेन भेद इति सर्वत्र भेदप्रत्ययस्यान्यथासिद्धेर्नान्त्यविशेषकल्पना । व्यवधिर्भेदकारणम् । यथा कुशपुष्करद्वीपयोर्देशस्वरूपयोरिति । यतो जातिदेशादिभेदा लोकबुद्धिगम्या अत उक्तम्- क्षणभेदस्तु योगिबुद्धिगम्य एवेति । एवकारः क्षणभेदमवधारयति न योगिबुद्धिगम्यत्वम् । तेन भूतचरेण देहसंबन्धेन मुक्तात्मनामपि भेदो योगिबुद्धिगम्य उन्नेय इति । यस्य तूक्ता भेदहेतवो न सन्ति तस्य प्रधानस्य भेदो नास्तीत्याचार्यो मेने । यस्मादूचे "कृतार्थं प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वात्" (२।२२) इति । तदाह-मूर्तिव्यवधीति । उक्तभेदहेतूपलक्षणमेतत् । जगन्मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्तीत्यर्थः ॥५३॥
જો કે વિવેકજન્ય જ્ઞાન નિઃશેષ ભાવવિષયક છે, એ વાત આગળ કહેવાશે, છતાં એ અત્યંત સૂક્ષ્મ હોવાથી, પહેલાં એ જ્ઞાનનો ખાસ વિષય “જાતિલક્ષણ...”