Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
HOLSTERS ORGA*06*
तत्पृच्छयतां" | मगधाप्याह-“हे मातः प्रश्नेनानेन किं? अस्माकं द्रव्येण कार्य । तद्व्यं चैष बहु बहु पूरयन्नस्ति । प्रश्नेन किं?" र अक्कया प्रोक्तं-'तत्तु सत्य, तथापि प्रष्टव्यं'। अन्यदा मगधा निशायां वयरसेनं पप्रच्छ–'स्वामिन् राज्यसेवावाणिज्यादिकं विना युष्माकं द्रव्यप्राप्तिः कुतः। वयरसेनो मुग्धत्वात् सहकारफलस्य प्रभावमचीकथत् । यतः
प्रायेण पुंसः सरलस्वभावो रंडास्तु कौटिल्यगुणप्रयुक्ताः ।
यवाः प्रकीर्णा न भवन्ति शालयस्तथैव नीचः प्रकृतिं न मुञ्चति ॥१॥ कुट्टिनी तज्ज्ञात्वा सहकारफलजिघृक्षया मदनफललपनश्रीपरिवेषणभक्षणाद्वमनमकारयत् । तत्फलबीजं वमनमध्याद् गृहीत्वाऽकया भक्षितं, तज्जठरे गतं वृथाऽभूत् । अथ वयरसेनस्तत्फलाभावात् कुतो ददाति ? ततः स आर्तध्यानं करोति । अनयाक्कया पापिण्या कपटं कृतं । एकदा 'अद्य देवीपूजां करिष्यामोऽतः कारणाचया बहिर्गन्तव्यं,' अनेन मिपेण गृहादहिः कर्पितः । पराभूत इव स्वमनादरं वीक्ष्य बहिर्ययो । अत्याकुलितश्चित्ते चिन्तयति-" सर्व समीहितं द्रव्येण भवति । द्रव्याभावादहं किं करोमि ? क गच्छामि ? । पुनः पुनश्चिन्तयति
यस्यास्ति वित्तं स नरः कुलीनः स पंडितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥१॥
an Education international
For Personal & Private Use Only
ww.jainelibrary.org

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338