Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 323
________________ चरित्र १५७॥ च्छति-'हे भगवन् केन कर्मणा ममोढमात्रा अपि पण्मिताः प्रिया मृताः ? सप्तम्याश्च विरहोऽभवत् १" । भगवताख्यायते स्म " तव पूर्वभवकृतकर्मणः संबन्धं शृणु । विन्ध्याचलपर्वते हिंसापरः पल्लीपतिः शिखरसेनाख्योऽभूद् । तत्प्रिया चन्द्रावतीनाम्नी बभूव । हैस पल्लीपतिः सप्तव्यसनसेवी अनेकानि पापसहस्राणि करोति । एकदा मार्गभ्रष्टः साधुगच्छस्तत्रागतः । स पल्लीशस्तान् मुनिवरान | दृष्ट्वाऽपृच्छत्-'भो यूयं के ?' । तेऽप्यूचुः–'वयं मुनयो मार्गभ्रष्टा अवागताः। तत्प्रिया चन्द्रावत्यवादी-'स्वामिन्नेतान् फलायर्भोजयित्वाऽध्वनि लगय। तैरुक्तं-“अस्माभिर्वर्णगन्धादिरहितं फलं चिरकालीनं गृहीतमस्ति । इतरैः कल्पितफलैरस्माकं कार्य नास्ति । क्षणमेकं तिष्ठ । अस्मदीयं वाक्यं शृणु"। ततः स उपविष्टः । साधवो नमस्कारमादिशन्-"त्वयायं नमस्कारः स्मरणीयः, अथ च त्वया संग्राम विना कस्यापि घातो न कार्यः”। इत्युक्त्वा ते सुनिवरा अन्यत्र विजन्हुः । पल्लीशेन मार्गे मुक्ताः | साधवश्चेलुः । पल्लीशो गृहे गतः । साधूननुमोदयति । अन्येद्युश्चन्द्रावतीप्रियायुक्तः पल्लीशो नद्यां क्रीडां कर्तुं ययौ । तत्र जलपाना| र्थमागतेन सिंहनोभावपि भक्षितौ । तावुभावपि तदा नमस्कारध्यानानुभावात्सौधर्मे पल्योपमायुपौ सुरौ जातौ । तत्र देवायुः प्रतिपाल्य ततश्च्युत्वा महाविदेहे चक्रपुर्या नगर्या कुरुमृगांकस्य नृपतेमीनमृगांकनामा पुत्रो जातः। चन्द्रावतीजीवो दिवश्च्युत्वा भूषणभूपतेर्वसन्तसेनाख्या सुता समजनि । यौवनावस्थायां तयोः पाणिग्रहणं संजातं । तावन्योऽन्यं पूर्वभवस्नेहवशात्परमप्रेमपरायणौ सुखमनुवभू| वतुः । मीनमृगांकस्य पिता कुरुमगांकश्चिरकालं राज्यसुखं भुक्त्वा वैराग्यं प्राप्तः। पुत्रस्य मीनमृगांकस्य राज्यं दत्वा स्वयं वने गत्वा | तापसोऽभूत् । मीनमृगांको राज्यं सुखं भुनक्ति । वसन्तसेना पट्टराज्ञी कृता । नृपस्तु यौवनमदमत्तो मृगयाव्यसनसेवी जातः। तिर्यग्वियोजनं कुरुते । तिरश्वा भोगान्तरायं करोति । वृषभाणामश्वानां नराणां च पंढत्वं करोति । एवं स बहुपापव्यसनपरायणो भूत्वा +053% | ॥१५७॥ % In Education international For Personal Private Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338