Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
०
६२॥
Jain Education International
॥ अथ प्रशस्तिः ॥ श्रीवीरशासनसरोवरराजहंसाः श्रीचन्द्रगच्छसरसीरुहचञ्चरीकाः । सत्त्वाधिकत्वसकलाजितसद्गुणौघाः श्रीपूज्यसोमविमला गुरवो बभूवुः ॥ १ ॥ येषां पदक्षालनवारिणाहिज्वरादिरोगाः प्रशमन्ति नूनम् । पूज्यपादा हि जयन्तु नित्यं गच्छाधिराजाः प्रकटप्रभावाः ॥ २ ॥ तत्पट्टपूर्वाचलसप्तसप्तिर्भाग्याधिको जंगमकल्पवृक्षः । गच्छाधिपः श्रीगुरुहेमसोमसूरीश्वरो राजतु साधुधुर्यः ॥ ३ ॥ तदीयगच्छे गुरुसंघवीरगीतार्थमुख्याः सकला बभूवुः । येषां करस्पर्शनतोऽपि मूर्खः प्राज्ञो भवेत्सर्वकलाप्रधानः ॥ ४ ॥ तदीयशिष्योदयवीर एव सद्गयबन्धेन हि शास्त्रमेतत् । कथाप्रबन्धैः सरसं प्रधानं निरूपयामास गुरुप्रसादात् ॥ ५ ॥
For Personal & Private Use Only
6
चरित्र
॥ १६२॥
jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338